पूर्वम्: ५।१।३८
अनन्तरम्: ५।१।४०
 
सूत्रम्
पुत्राच्छ च॥ ५।१।३९
काशिका-वृत्तिः
पुत्राच् छ च ५।१।४०

पुत्रशब्दाच् छः प्रत्ययो भवति, चकाराद् यत् च तस्य निमित्तं संयोग उत्पातौ ५।१।३७ इत्येतस्मिन् विषये। द्व्यचः इति नित्ये यति प्राप्ते वचनम्। पुत्रस्य निमित्तं संयोगः उत्पातो वा पुत्रीयम्, पुत्र्यम्।
बाल-मनोरमा
पुत्राच्छ च १६८३, ५।१।३९

पुत्राच्छ च। तस्य निमित्तमित्येव। कथं तर्हि "आरेभिरे यतात्मानः पुत्रीयामिष्टिमृत्विजः" इति?। नहीष्टिः संयोग उत्पातो वा। उच्यते--संयुज्यतेऽनेनेति संयोगः इष्टया हि पुत्रेणफलेन युज्यते यष्टा।

तत्त्व-बोधिनी
पुत्राच्छ च १३०१, ५।१।३९

पुत्राच्छ च। "गोव्द्यचः"इति नित्यं यति प्राप्ते वचनम्। कथं पुत्रीयः क्रतुरिति। नहि कतुः संयोगो, नाप्युत्पात् इति चेत्। अत्राह हरदत्तः---संयुज्यतेऽनेनेति व्युत्पत्त्या क्रतुरपि संयोग एव, यागकरणेन हि पुरषः फलेन संयुज्यते अतो यागादिरपि संयोगो,न केवलं संबन्धएवेत्याग्रह इति।