पूर्वम्: ५।१।४०
अनन्तरम्: ५।१।४२
 
सूत्रम्
तस्येश्वरः॥ ५।१।४१
काशिका-वृत्तिः
तस्य ईश्वरः ५।१।४२

तस्य इति षष्ठीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यम् अणञौ प्रत्ययौ भवतः ईश्वरः इत्येतस्मिन् विषये। सर्वभूमेः ईश्वरः सार्वभौमः। पार्थिवः। षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देशः प्रत्ययार्थस्य निवृत्तये। अन्यथा संयोगोत्पाताविव ईश्वरो ऽपि प्रत्ययार्थस्य निमित्तस्य विशेषणं संभाव्येत।
लघु-सिद्धान्त-कौमुदी
तस्येश्वरः ११४९, ५।१।४१

सर्वभूमिपृथिवीभ्यामणञौ स्तः। अनुशतिकादीनां च। सर्वभूमेरीश्वरः सार्वभौमः। पार्थिवः॥
न्यासः
तस्ये�आरः। , ५।१।४१

"तस्य निमित्तम्()" ५।१।३७ इत्यतस्तस्यग्रहणमनुवत्र्तते, तत्किमर्थं पुनस्तस्यनिर्देशः? इत्याह--षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देशः" इत्यादि। "प्रत्ययार्थस्य" इति। निमित्तस्य। "अन्यथा" इति। यदि षष्ठीनिर्देशः प्रत्ययार्थै निवृत्त्यर्थो न क्रियते, ततो यथा संयोग उत्पातश्च प्रत्ययार्थविशेषणम्(), तथे()आरोऽपि तस्यैव विशेषणं सम्भाव्येत। तथा चे()आरविशिष्टे निमित्त एव प्रत्ययः स्यात्()॥
बाल-मनोरमा
तस्ये�आरः १६८५, ५।१।४१

तस्ये()आरः।

तत्त्व-बोधिनी
तस्ये�आरः १३०३, ५।१।४१

तस्ये()आरः। "तस्य निमित्त"मित्यतोऽनुवृत्त्यैव सिद्धे पुनः "तस्ये"ति निर्देशो निमित्तरूपप्रत्ययार्थस्य निवृत्तये। अन्यथा हि संयोगोत्पाताविवे()आरोऽपि प्रत्ययार्थस्य विशेषणं संभाव्येत।