पूर्वम्: ५।१।४१
अनन्तरम्: ५।१।४३
 
सूत्रम्
तत्र विदित इति च॥ ५।१।४२
काशिका-वृत्तिः
तत्र विदित इति च ५।१।४३

तत्र इति सप्तमीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यम् अणञौ प्रत्ययौ भवतः विदितः इत्येतस्मिन्नर्थे। विदितो ज्ञातः प्रकाशितः इत्यर्थः। सर्वभूमौ विदितः सार्वभौमः। पार्थिवः।
न्यासः
तत्र विदिति इति च। , ५।१।४२

ई()आरानुकर्वणार्थश्चकारः। इतिकरणो विवक्षार्थः॥
बाल-मनोरमा
तत्र विदित इति च १६८६, ५।१।४२

तत्र विदित इति च। सूत्रद्वयमिदम्। सर्वभूमिपृथिवीभ्यामित्यनुवर्तते। "तस्य निमित्तं संयोगात्पाता"विति तु निवृत्तम्, पुनस्तस्येत्युक्तेः। तस्ये()आर इत्यर्थे षष्ठ()न्तात्, तत्र विदित इत्यर्थे तु सप्तम्यन्तादणञौ स्त इत्यर्थः। योगविभागो यथासङ्ख्यनिवृत्त्यर्थः, उत्तरसूत्रे "तत्र विदित" इत्यस्यैवानुवृत्त्यर्थश्च।

तत्त्व-बोधिनी
तत्र वदिति इति च १३०४, ५।१।४२

तत्र वदिति इति च। योगविभाग उत्तरार्थो, यथासङ्ख्यनिवृत्त्यर्थश्च।