पूर्वम्: ५।१।४२
अनन्तरम्: ५।१।४४
 
सूत्रम्
लोकसर्वलोकाट्ठञ्॥ ५।१।४३
काशिका-वृत्तिः
लोकसर्वलोकाट् ठञ् ५।१।४४

लोकसर्वलोकशब्दाभ्यां तत्र इति सप्तमीसमर्थाभ्याम् विदितः इत्येतस्मिन् विषये ठञ् प्रत्ययो भवति। लोके विदितः लौकिकः। सार्वलौकिकः। अनुशतिकादित्वातुभयपदवृद्धिः।
न्यासः
लोकसर्वलोकाट्ठञ्?। , ५।१।४३

सर्वत्र ठञ्ग्रहणं ठको निवृत्त्यर्थम्(), अन्यथा हि प्रकृतिमात्रनिर्देशे क्रियमाणे "आर्हात्" ५।१।१९ इति ठक्प्रसज्येत॥
बाल-मनोरमा
लोकसर्वलोकाट्ठञ् १६८७, ५।१।४३

लोकसर्व। तत्र विदित इत्यर्थं इति। योगविभागसामथ्र्यात्तस्ये()आर इति नानुवर्तत इति भावः। लौकिक इति। लोकेषु विदित इत्यर्थः। सर्वलोकशब्दे विशेषमाह--अनुशतिकादित्वादिति।