पूर्वम्: ५।१।४५
अनन्तरम्: ५।१।४७
 
सूत्रम्
तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते॥ ५।१।४६
काशिका-वृत्तिः
तदस्मिन् वृद्ध्यायलाभशुल्कौपदा दीयते ५।१।४७

तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं वृद्ध्यादि चेत् तद् दीयते। दीयते इत्येकवचनान्तं वृद्ध्यादिभिः प्रत्येकम् अभिसम्बध्यते। तत्र यदधमर्णेन उत्तमर्णाय मूलधनातिरिक्तं देयं तद् वृद्धिः। ग्रामादिषु स्वामिग्राह्यो भागः आयः। पटादीनाम् उपादानमूलादतिरिक्तं द्रव्यं लाभः। रक्षानिर्वेशो राजभागः शुल्कः। उत्कोचौपदा। पञ्च अस्मिन् वृद्धिर् वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते पञ्चकः। सप्तकः। शत्यः, शतिकः। साहस्रः। चतुर्थ्यर्थ उपसङ्ख्यानम्। पञ्च अस्मै वृद्धिर् वा आयो वा लाभो वा उपदा वा दीयते पज्चको देवदत्तः। सिद्धं त्वधिकरणत्वेन विवक्षितत्वात्। सममब्राह्मणे दानम् इति यथा।
न्यासः
तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते। , ५।१।४६

ननु च वृद्ध्यादीनां बहुत्वाख्यानेनैव बहुवचनं तेन भवितव्यमितित कथं दीयत इत्येकवचनान्तेन तस्य निर्देशः? इत्याह--"दीयत इत्येकवचनम्()" इत्यादि। यदि समुदितैर्वृद्ध्यादिभिः सम्बन्धः क्रियते तर्हि स्याद्बहुवचनम्()। न च तैः समुदितैःस क्रियते, किं तर्हि? प्रत्येकम्(), अत एकवचनमेव। वृद्धिशब्द इह लौकिको धनविशेषवाची गृह्रते, न च संज्ञापदम्(), आयादिभिर्धनविशेषवाचिभिः सह निर्देशात्()। अत एवाह--"तत्र" इत्यादि। उत्तमर्णस्य यद्धनं तस्मादतिरिक्तमधिकं धनमधमर्णेन यद्दातव्यं तद्()वृद्धिः। "ग्रामादिषु" इति। आदिशब्देन क्षेत्रादि। "पटादीनाम्()" इत्यादि। पटादीनां व्यवह्यियमाणानामुपादानं सूत्रादि। तस्य यन्मूल्यं तस्मादतिरिक्तं द्रव्यं पटादिविक्रयेण यल्लभ्यते स लाभ-। "रक्षानिर्वेशः" इति। वणिजां रक्षाकारी राज्ञो भागो रक्षानिर्वेश इत्युच्यते। ननु चासावपयायः, तदपार्थकं शुल्कस्य पृथगुपादानम्()? नैतदस्ति; पञ्चास्मिन्? ग्राम आय इत्यायं प्रति ग्रामस्याधिकरणभावः; उत्पद्यमानस्यायस्याधेयबावात्()। शुल्के तु न सम्भवति। पञ्चास्मिन्? शते शुल्का इति शतं न शुल्कस्याधिकरणम्(), किं तर्हि? इयतापरिच्छेदः शतेन शुल्कस्य क्रियते। तस्मादस्य भिन्नत्वात्? शुल्कः पृथगुक्तः। "सिद्धं तु" इत्यादि। विवक्षातः कारकाणि भवन्तीति सम्प्रदानाख्ये चाधिकरणत्वेन विवक्षेत्याह--"समम्()" इत्यादि। गतार्थम्()॥
बाल-मनोरमा
तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते १६९०, ५।१।४६

तदस्मिन्। वृद्धि, आय, लाभ, शुल्क, उपदा एषां द्वन्द्वात्प्रथमाबहुवचनम्। ननु तर्हि दीयत इति कथमेकवचनमित्यत आह--वृद्धिर्दीयत इत्यादि क्रेमेणेति। एवंच तदस्मिन्वृद्धिर्दीयते, तदस्मिन् आयो दीयते, तदस्मिन् लाभो दीयते, तदस्मिन् शुल्को दीयते, इत्यर्थेषु प्रतमान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः। पञ्चक इति। "सङ्ख्यायाः" इति कन्। शतिकः। शत्य इति। शतमस्मिन्वृद्धिः, आयः, लाभः, शुल्कः, उपदा वा दीयते इति विग्रहः। "शताच्च ठन्यतौ"। साहरुआ इति। सहरुआमस्मिन्दीयते इत्यादि विग्रहः। "शतमानसहरुओ"त्यण्। रक्षानिर्वेश इति। रक्षा=प्रजापरिपालनम्, तदर्थे निर्वेशः=भृतिः रक्षानिर्वेशः। उत्कोच इति। "मह्रं किञ्चिद्दत्तं चेत्तव राजद्वारेऽनुरकूलो भवामी"त्यादि समयं कृत्वा यद्गृह्रते तदुत्कोच इत्युच्यत इत्यर्थः।

चतुथ्र्यर्थ इति। तदस्मै वृद्ध्यादि दीयते इत्युपसंख्यातव्यमित्यर्थः। सममब्राआहृणे इति। एवंच सम्प्रदानस्यैवाधिकरणत्वविवक्षया इष्टसिद्धेरुपसह्ख्यानमिदं नादर्तव्यमिति भावः।

तत्त्व-बोधिनी
तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते १३०६, ५।१।४६

तदस्मिन्। प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति। शुल्कग्रहणं प्रपञ्चार्थं, तस्याप्यायविशेषत्वात्। तथा च "ठगायस्थानेभ्यः"इति ठग्भवति, शौल्कशालिक इथि हरदत्तः। उपदा दीयत इति। जसः सस्य रुत्वे यत्वे च यलोपः। साहरुआ इति। "शतमाने"त्यादिनाऽण्। रक्षानिर्वेश इति। निर्वेशो ---भृतिः। रक्षानिमित्तको निर्वेशो रक्षानिर्वेशः। संबन्धषष्ठ()आ समासः। सममित्यादि। एवं च सम्प्रदानस्यैवाऽधिकरणत्वविवक्षयेष्टसिद्धौ उपसङ्ख्यानं नादर्तव्यमिति भावः।