पूर्वम्: ५।१।४७
अनन्तरम्: ५।१।४९
 
सूत्रम्
भागाद्यच्च॥ ५।१।४८
काशिका-वृत्तिः
भागाद् यच् च ५।१।४९

भागशदाद् यत् प्रत्ययो भवति, चकारात् ठन् च, तदस्मिन् वृद्ध्यायलाभशुल्कौपदा दीयते ५।१।४६ इत्येतस्मिन्नर्थे। ठञो ऽपवादः। भागो। वृद्ध्यादिरस्मिन् दीयते भाग्यं, भागिकं शतम्। भाग्या, भागिका विंशतिः। भागशब्दो ऽपि रूपकार्धस्य वाचकः।
न्यासः
भागाद्यच्च। , ५।१।४८

"ठञोऽपवादः" इति। न ठकः; भागशब्दस्य परिमाणत्वात्()। ननु चाङ्गमात्रवचनोऽपि भागशब्दोऽस्ति? सत्यमस्ति; न तु तस्येह ग्रहणम्()। तस्य हि ग्रहणे वृद्ध्यादिभिः सम्बन्दो नोपपद्यते। परिमाणवचनस्तु प्रसिद्धो रूपकांशे वत्र्तत इति वृद्ध्यादिभिः सम्बन्धः उपपद्यते॥
बाल-मनोरमा
भागाद्यच्च १६९२, ५।१।४८

भागाद्यच्च। तदस्मिन् वृद्ध्यादि दीयत इत्यर्थे भागशब्दात्प्रथमान्ताद्यत्प्रत्ययश्च स्यादित्यर्थः। चाट्ठनिति। "पूर्वसूत्रादनुकृष्यते" इति शेषः। भागशब्दोऽपि रूपकस्यार्ध इति। "वर्तते" इति शेषः।

तत्त्व-बोधिनी
भागाद्यच्च १३०८, ५।१।४८

रुपकस्येति। रूपकं--कार्षापणम्। रूढैति। तथा च भागवद्द्रव्यसापेक्षत्वेनाऽसामथ्र्यमिह नोद्भावनीयमिति भावः।