पूर्वम्: ५।१।५४
अनन्तरम्: ५।१।५६
 
सूत्रम्
सोऽस्यांशवस्नभृतयः॥ ५।१।५५
काशिका-वृत्तिः
सो ऽस्य अंशवस्नभृतयः ५।१।५६

स इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत् प्रथमासमर्थम् अंशवस्नभृतयश्चेत् ता भवति। अंशो भागः। वस्नं मूल्यम्। भृतिर्वेतनम्। पञ्च अंशो वस्नो वा भृतिर्वास्य पञ्चकः। सप्तकः। साहस्रः।
न्यासः
सोऽस्यांशवस्नभृतयः। , ५।१।५५

"वस्नद्रव्याभ्याम्()" ५।१।५० इत्यत्रापि वस्नशब्देन मूल्यमुच्यते॥
बाल-मनोरमा
सोऽस्यांऽशवस्नभृतयः १६९९, ५।१।५५

सोऽस्यांश। स इति प्रत्येकमंशादिष्वन्वेति। सोऽस्यांशः, तदस्य वस्नम्, सास्य भृतिरित्यर्थेषु प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। पञ्चक इति। "संख्यायाः" इति कन्।