पूर्वम्: ५।१।५७
अनन्तरम्: ५।१।५९
 
सूत्रम्
पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टि- सप्तत्यशीतिनवतिशतम्॥ ५।१।५८
काशिका-वृत्तिः
पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ५।१।५९

तदस्य परिमाणम् ५।१।४६ इति वर्तते। पङ्क्त्यादयः शब्दा निपात्यन्ते। यदिह लक्षणेन अनुपपन्नं तत् सर्वं निपातनात् सिद्धम्। पञ्चाना टिलोपः तिश्च प्रत्ययः। पञ्च परिमाणम् अस्य पङ्क्तिश् छन्दः। द्वयोर् दशतोः विन्भावः शतिश्च प्रत्ययः द्वौ दशतौ प्रैमाणम् अस्य सङ्घस्य विंशतिः। त्रयाणां दशतां त्रिन्भावः शत् च प्रत्ययः। त्रयो दशतः परिमाणम् अस्य त्रिंशत्। चतुर्णां दशतां चत्वारिन्भावः शत् च प्रत्ययः। चत्वारो दशतः परिमाऽणस्य चत्वारिंशत्। पञ्चानां दशतां पञ्चाभावः शत् च प्रत्ययः। पञ्च दशतः परिमाणाम् अस्य पञ्चाशत्। षण्णां दशतां षड्भावः, तिः प्रत्ययो ऽपदत्वं च। षङ् दशतः परिमाणम् अस्य षष्टिः। सप्तानां दशतां सप्तभावः तिः प्रत्ययश्च। सप्त दशतः परिमाणम् अस्य सप्ततिः। अष्टानां दशताम् अशीभावः तिः प्रत्ययश्च। अष्टौ दशतः परिमाणम् अस्य अशीतिः। नवानां दशतां नवभावः तिः प्रत्ययश्च। नव दशतः परिमाणम् अस्य नवतिः। दशनां दशतां शभावः तश्च प्रत्ययः। दश दशतः परिमाणम् अस्य सङ्घस्य शतम्। विंशत्यादयो गुणशब्दाः, ते यथा कथंचिद् व्युत्पाद्याः। न अत्र अवयवार्थे ऽभिनिवेष्टव्यम्। तथा हि पङ्क्तिः इति क्रमसम्निवेशे ऽपि वर्तते, ब्राह्मणपङ्क्तिः, पपीलिकापङ्क्तिः इति। न च अत्र अवयवार्थः कश्चिदस्ति। या च एषां विषयभेदेन गुणमात्रे गुणिनि च वृत्तिः, स्वलिङ्गसङ्ख्यानुविधानं च, एतदपि सर्वं स्वाभाविकम् एव। सहस्रादयो ऽप्येवं जातियकाः तद्वदेव द्रष्टव्याः। उदाहरणमात्रम् एतदिति।
लघु-सिद्धान्त-कौमुदी
पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ११५०, ५।१।५८

एते रूढिशब्दा निपात्यन्ते॥
न्यासः
पंक्तिविंशतितिं?रशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्?। , ५।१।५८

"अपदत्वं च" इति। पदनिबन्धनस्य जशत्वादेः कार्यस्य प्रतिषेधार्थमिहैते विंशत्यादयः परिमाणे निपात्यन्ते। "तदस्य परिमाणम्()" ५।१।५६ इत्यधिकारे निपातनात्()। एवञ्च गवां विंशतिरिति षष्ठी व्यतिरेकनिबन्धना न प्राप्नोति। विंशतिशब्देन हि तान्येव गोद्रव्याणि गृह्रन्ते, न तदधिकं किञ्चिदर्थान्तरम्()। बहुवचनं प्रसजति तेषां बहुत्वादिति यश्चोदयेत्(), तं प्रत्याह--"विंशत्यादयः" इत्यादि। यथाकथञ्चित्प्रकारेण। विनाप्यवयवार्थेनेति यावत्()। रूपमात्रं प्रधानम्(), नावयवार्थः। यस्त्वेषामर्थः स लोकत एव व्यवतिष्ठत इत्यभिप्रायः। "नात्राभिनिवेष्टव्यम्()" इति। संख्यापरिमाणोपाधिकः प्रकृत्यर्थः। "परिमाणमात्रं प्रत्ययाः" इति नायमत्राभिनिवेशः कत्र्तव्य इत्यर्थः। अनभिनिवेशस्य कारणमाह--"तथा हि" इत्यादि। स्यादेतत्()--"अत्राप्यवयवार्थोऽस्ति" इत्यत आह--"न च" इत्यादि। ब्राआहृआणानां पंक्तिरित्युक्ते संख्यापरिमाणोपाधिकः प्रकृत्यर्थः, परिमाणो वा कश्टचित्(); प्रत्ययार्थो हि न गम्यते, किं तर्हि? सन्निवेशविशेषः संस्थानात्मको गुण एव प्रतीयते। तथा हि--तस्य सन्निवेशविशेषस्यानवगमे तावत्स्येव ब्राआहृणेषु पंक्तिरिति न प्रयुज्यते। तदेवं गुणशब्दत्वादिं()वशत्यादीनां गवां विंशतिरिति सिध्यति षष्ठी; विंशतिशब्दस्य संख्यानवृत्तित्वात्()। यदि तर्हि गुणशब्दा एते, विंशतिगवि इति द्रव्यशब्देन सामानाधिकरण्यं न प्राप्नोति? गुणिन्यत्र वृत्तिः, गुणमात्रे न ततोऽयमदोष इति। वक्तव्यः स हेतुः यत एतेषा क्वचिद्गुणमात्रे वृत्तिर्भवति, क्वचिद्गुणिनि। बहुवचनप्रसङ्गाच्च गुणिनि वृत्तिरित्येतदेव दुःस्थम्(); बहुत्वाद्गुणिनाम्()। इह च विंशतिः कुण्डानीति नपुंसकलिङ्गं प्राप्नोति, विंशतिब्र्राआहृणा इति पुंल्लिङ्गम्(), गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति, यथा--शुक्लः कम्बलः, शुक्लं वस्त्रम्(), शुक्ला शाटीति। यदासौ द्रव्यमाश्रित्य भवति गुणः, तस्य लिङ्गवचनं यत्? तद्गुणवचनस्यापि भवति, यथा--गुणशब्दत्वेऽप्येषामाश्रीयमाणे न भवत्येव दोषप्रसङ्गान्मुक्तिः? इत्यत आह--"या चैषाम्()" इत्तयादि। न केवलमर्थाभिदानं स्वाभाविकम्(), किन्त्वेतदपीत्यपिशब्देन दर्शयति। यत्र द्रव्येण गुणिनैषामभिधेयो गुणो विशेष्यते, तत्र स्वभावादेव गुणमात्रे वृत्तिः। यत्र त्वेत उपसर्जनीभूतस्वार्थास्तेन स्वार्थेन द्रव्यं विशेषयन्ति तत्रैषां स्वभावत एव गुणिनि वृत्तिः। "स्वलिङ्गसंख्यानुविधानं च" इति। गुणिन्यणि वत्र्तमानानां ययोर्लिङ्गसंख्ययोर्यदनुविधानमनुवत्र्तमानमेतदपि सर्वं स्वाभाविकम्()। अन्येषामपि, गुणशब्दानामपि क्वचित्? स्वभावत एव गुणिनि वृत्तिर्भवति, तद्यथा-शुक्लः पट इत्यत्र शुक्लशब्दस्य। क्वचिद्गुणमात्रे, यथा--अस्यैव शुक्लो गुणः पटस्येत्यत्र। अन्येषामपि केषाञ्चित्? शब्दानां स्वाभाविकं स्वलिङ्गसंख्यानुविधानं दृश्यत एव, तद्यथा--वेदाः प्रमाणम्(), श्रुतयः प्रमाणमिति। तस्मात्? स्वाभाविकत्वाद्गुणमात्रे गुणिनि च वृत्तेः स्वलिङ्गसंख्यानुविधानस्य च न भवति यथक्तदोषप्रसङ्गः। यदा हि स्वभावत इति संख्यानमात्रे गुणे गुणमात्रे वृत्तिः तदा व्यतिरेकनिबन्धना षष्ठी भवति। यदा तु गुणिनि, तदा तयोरपि च द्रव्यशब्दत्वाकत्? सामानाधिकरण्यमपि भवति। द्रव्येऽपि वत्र्तमानानां स्वाभाविकं स्वलिङ्गसंख्यानुविधानम्()। अथ सहरुआआदयोऽपि कस्मान्न व्युत्पाद्यन्ते? इत्याह--"सहरुआआदयोऽपि" इत्यादि। एवञ्जातीयका एवम्प्रकारा विंशत्यादिभिः सदृशा इत्यर्थः। तेषामपि गुणवत्त्वात्? तद्वदेव विंशात्यादिवदेव द्रष्टव्याः। विंशात्यादय इव तेऽपि प्रकृत्यादिविभागेन व्युत्पाद्यन्त इत्यर्थः। यद्येवम्(), किमर्थं विंशत्यादय एव सूत्रे उपात्ताः? इत्याह्म#ऋ"उदाहरणमात्रम्()" इत्यादि। उदाहरणमात्रं विंशत्यादिग्रहणम्(), अन्येऽप्येवञ्जातीयाः सहरुआआदयस्तथैव व्युत्पाद्याः॥
बाल-मनोरमा
पङ्क्तिविंशतितिं?रशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् १७०२, ५।१।५८

पङ्क्तिविंशति। रूढिशब्दा निपात्यन्त शति। "तदस्य परिमाणमित्यर्थे" इति शेषः। पञ्च पादाः परिमाणमस्येत्यर्थे पञ्चन्शब्दात्तिप्रत्ययः , प्रकृतेष्टिलोपः, चकारस्य कुत्वम्, अनुस्वारपरसवर्णौ। पङ्क्तिरिति रूपम्। "पञ्चाक्षरा पञ्चपदा पङ्क्ति"रिति छन्दःशास्त्रे। दशानां वर्गः दशत्। "पञ्चद्दशतौ वर्गे वा" इति वक्ष्यते। द्वौ दशतौ परिमाणमस्य सङ्घस्येति विंशतिः। शतिच्प्रत्ययः, प्रकृतेर्विन्भावः, अनुस्वारश्च। अत्र सङ्घग्रहणमनुवर्तते। तथा च गवां विंशतिरिति भवति। सङ्घसङ्घिनोस्तादात्म्यविवक्षायां तु विंशतिर्गाव इति भवति। स्वभावादेकवचनं स्त्रीत्वं च। एवं तिं()रशदादावपि। "विंशत्याद्याः सदैकत्वे संख्याः संख्येयसङ्ख्ययो"रिति, "तासु चानवतेः स्त्रियः" इति चाऽमरः। त्रयो दशतः परिमाणमस्य सङ्घस्य त्रिशत्, शत्प्रत्ययः, प्रकृतेः त्रिन्भावश्च। चत्वारो दशतः परिमाणमस्य सङ्घस्य चत्वारिंशत्। शत्प्रत्ययः, प्रकृतेः चत्वारिन्भावश्च। पञ्च दशतः परिमाणमस्य सङ्घस्य पञ्चाशत्। शत्प्रत्ययः, प्रकृतेः पञ्चादेशः। षड् दशतः परिमाणमस्य सह्घस्य षष्ठिः। तिप्रत्ययः, प्रकृतेः षष्, जश्त्वाऽभावश्च। सप्त दशतः परिमाणमस्य सङ्घस्य सप्ततिः। तिप्रत्ययः, प्रकृतेः सप्तादेशः। अष्टौ दशतः परिमाणमस्य सङ्घस्य अशीतिः। तिप्रत्ययः, प्रकृतेरशीत्यादेशः। नव दशतः परिमाणमस्य सङ्घस्य नवतिः। तिप्रत्ययः, प्रकृतेर्नवादेशः। दश दशतः परिमाणमस्य सङ्घस्य शतम्। तप्रत्ययः, प्रकृतेः शादेशश्च। एतत्सर्वं भाष्ये स्पष्टम्। "एतान्यव्युत्पन्नप्रातिपदिकानी"ति तु भाष्यनिष्कर्षः।

तत्त्व-बोधिनी
पङ्क्तिवंशतितिं?रशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् १३१५, ५।१।५८

पङ्क्तिवंशति। "तदस्य परिमाण"मिति वर्तते। पञ्चन्()शब्दस्य टिलोपः, तिप्रत्ययः, "चोः कु"रिति कुत्वम्। पञ्च पदानि परिमाणमस्य पङ्क्तिश्छन्द इति काशिका। पदशब्दोऽत्र पादपर्याय इति हरदत्तः। रूढिशब्दा इति। तथा चात्र नाऽवयवर्थेऽभिनिवेष्टव्यम्। पङ्क्तिशब्दो हि नानार्थः। अस्ति क्रमसंनिवेशे ---ब्राआहृणपङ्क्ति पिपीलिकापङ्क्तिरिति। अस्ति च दशसंख्यायं---, पङ्क्तिरथ इति। दशरथ इत्यर्थः। अस्ति हि छन्दोविशेषे----"यस्य पञ्चाक्षराः पञाच पादाः"। तथा च छन्दोविशेषे एवायवार्थो नान्यत्रेति बोध्यम्। द्वयोर्दशतोर्विन्भावः, शतिश्च प्रत्ययः , अपदत्वं चेति न पठन्ति। त्रयाणां दशतां त्रिन्भावः। शच्च प्रत्ययः। मतान्तरे तु तिं()रभावः। त्रयो दशतः परिमाणमस्य तिं()रशत्। एवं चतुर्णां चत्वारिन्। पञ्चानां पञ्चा। आभ्यामपि शत्प्रत्ययः। षण्णां दशतां षष्,तिश्च प्रत्ययः, अपदत्वं च। षट् दशतः परिमाणमस्य षष्टिः। ततस्त्रिभ्योऽपि तिप्रत्यय एव। सप्तानां दशतां सप्त, अष्टानां दशतामशी, नवानां दशतां नव, दशानां दशतां शभावः, तश्च प्रत्ययः। दश दशतः परिमाणमस्य शतम्।