पूर्वम्: ५।१।५८
अनन्तरम्: ५।१।६०
 
सूत्रम्
पञ्चद्दशतौ वर्गे वा॥ ५।१।५९
काशिका-वृत्तिः
पञ्चद्दशतौ वर्गे वा ५।१।६०

पञ्चत् दशतित्येतौ निपात्येते तदस्य अप्रिमाणम् इत्यस्मिन् विषये वर्गे ऽभिधेये। सङ्ख्यायाः इति कनि प्राप्ते डतिर्निपात्यते। वावचनात् पक्षे सो ऽपि भवति। पञ्च परिमाणस्य पञ्चद् वर्गः। दशद्वर्गः। पञ्चको वर्गः। दशको वर्गः।
न्यासः
पञ्चद्?दशतौ वर्गे वा। , ५।१।५९

ननु च "सङ्घ" इत्यनुवर्त्तिष्यते, किं वर्गग्रहणेन? नैतदस्ति; सङ्घशब्दो हि प्राणिसमुदाये रूढः। वर्गशब्दस्तु समूहमात्रे इति वर्गग्रहणं कत्र्तव्यम्()॥
बाल-मनोरमा
पञ्चद्दशतौ वर्गे वा १७०३, ५।१।५९

पञ्चद्दशतौ। पञ्च दश वा परिमाणमस्य वर्गस्येत्यर्थे एतौ निपात्येते इत्यर्थः। पञ्चद्वर्ग इति। पञ्च परिमाणमस्येत्यर्थे पञ्चन्शब्दाड्डतिप्रत्ययः। तत्र इकार उच्चारणार्थः। "टे"रिति टिलोपः। दशदिति। दश परिमाणमस्य वर्गस्येति विग्रहः। डतिः। डित्त्वाट्टिलोपः। एतदर्थमेव डित्त्वम्। पक्षे इति। डत्यभावपक्षे "संख्यायाः" इति कन्नित्यर्थः।

तत्त्व-बोधिनी
पञ्चद्दशतौ वर्गे बा १३१६, ५।१।५९

पञ्चद्दशतौ। इमौ डत्यन्तावेव निपात्येते वर्गेऽभिधेये। "तदस्य परिमाण"मित्यनुवर्तत एव। दशदिति। दश परिमाणमस्य। पक्षे इति। वाग्रहणात् "संख्याया"इति कन्नपि भवतीति भावः।