पूर्वम्: ५।१।५९
अनन्तरम्: ५।१।६१
 
सूत्रम्
सप्तनोऽञ् छन्दसि॥ ५।१।६०
काशिका-वृत्तिः
सप्तनो ऽञ् छन्दसि ५।१।६१

वर्गे इत्येव, तदस्य परिमानम् इति च। सप्तन् शब्दाच् छन्दसि विषये ऽञ् प्रत्ययो भवति वर्गे ऽभिधेये। सप्त साप्तानि असृजत्।
न्यासः
सप्तनोऽञ्? छन्दसि। , ५।१।६०

संख्यालक्षणे कनि प्राप्ते सप्तञ्शब्दाच्छन्दस्यञ्विधानम्()॥