पूर्वम्: ५।१।६३
अनन्तरम्: ५।१।६५
 
सूत्रम्
शीर्षच्छेदाद्यच्च॥ ५।१।६४
काशिका-वृत्तिः
शीर्षच्छेदाद् यच् च ५।१।६५

शीर्षच्छेदशब्दाद् द्वितीयासमर्थान् नित्यम् अर्हति इत्यस्मिन्नर्थे यत् प्रत्ययो भवति। चकाराद् यथाविहितं च। शिरश्छेदं नित्यम् अर्हति शीर्षच्छेद्यः, शैर्षच्छेदिकः। प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते।
न्यासः
शीर्षच्छेदाद्यच्च। , ५।१।६४

प्रत्ययसन्नियोगेन शीर्षभावः, तेन वाक्ये प्रत्ययाभावान्न भवतीति भावः॥
बाल-मनोरमा
शीर्षच्छेदाद्यच्च १७०७, ५।१।६४

शीर्षच्छेदाद्यच्च। चादार्हीयदृक्। ननु "शीर्षंश्छन्दसी"ति छन्दस्येव शिरसः शीर्षादेव विधानात्कथमिह शीर्षादेश इत्यत आह--यट्ठकोरिति।