पूर्वम्: ५।१।६४
अनन्तरम्: ५।१।६६
 
सूत्रम्
दण्डादिभ्यः॥ ५।१।६५
काशिका-वृत्तिः
दण्दादिभ्यः ५।१।६६

नित्यम् इति निवृत्तम्। दण्डादिभ्यो द्वितियासमर्थेभ्यः अर्हति इत्यस्मिन्नर्थे यत् प्रत्ययो भवति। ठको ऽपवादः। दण्डम् अर्हति दण्ड्यः। मुसल्यः। दण्ड। मुसल। मधुपर्क। कशा। अर्घ। मेधा। मेघ। युग। उदक। वध। गुहा। भाग। इभ। दण्डादिः।
लघु-सिद्धान्त-कौमुदी
दण्डादिभ्यो यत् ११५२, ५।१।६५

एभ्यो यत् स्यात्। दण्डमर्हति दण्ड्यः। अर्घ्यः। वध्यः॥
न्यासः
दण्डादिभ्यो यः। , ५।१।६५

दण्डशब्दोऽयमस्ति क्रियावचनः--द्डनं दण्ड इति, अस्ति द्रव्यवचनः; विशेषाभावाद्द्वयोरपि ग्रहणम्()॥
बाल-मनोरमा
दण्डादिभ्यो यत् १७०८, ५।१।६५

दडादिभ्यः। यदित्यनुवर्तते। तदाह--यत्स्यादिति। "दण्डादिभ्यो यः" इति त्वपपाठः, "अचोय"दिति सूत्रभाष्ये तथैव दर्शनात्। अध्र्य इति। मूल्यं, पूजाविधि वार्हतीत्यर्थः। "मूल्ये पूजाविधावर्धः" इत्यमरः। वध्य इति। वधमर्हतीत्यर्थः।

तत्त्व-बोधिनी
दण्डादिभ्यो यत् १३२०, ५।१।६५

दण्डादिभ्यः। पूर्वसूत्राद्यदनुवर्तत इकत्याह--यत्स्यादिति। केचित्तु "दण्डादिभ्यो यः"इति पठन्ति, स चाऽपपाठ एव, भाष्यादिविरोधादित्याहुः। तथा हि "अचो य"दिति सूत्रे भाष्ये उक्तं---"हनो वा यद्वधा देशश्च"। वध्यः घात्यः। "तद्धितो वा"। वधमर्हति वध्य इति। यदि चेह यद्विधीयतेतदैवैतदुपपद्यते, पक्षेद्वयेऽपि "यतोऽनावः"इत्याद्युदात्तत्वात्। यदि त्वर यो विधीयत तदा स्वरो भिद्येत। मनोरमायां तु "क्यब्विधौ हनो वा वधस्तद्धितो वा"इति भाष्यम्। यदि चेह यद्विधीयते, तदैवैतदुपपद्यते। क्यप्याद्युदात्तत्वं, यत्यपि तद्धिते "यतोऽनावः"इत्याद्युदात्तत्वमित्यादि स्थितम्।