पूर्वम्: ५।१।६६
अनन्तरम्: ५।१।६८
 
सूत्रम्
पात्राद्घंश्च॥ ५।१।६७
काशिका-वृत्तिः
पात्राद् घंश् च ५।१।६८

पात्रशब्दाद् घन् प्रत्ययो भवति चकाराद् यत् च, तदर्हति इत्यस्मिन्नर्थे। ठक्ठञोरपवादः। पात्रं परिमाणम् अप्यस्ति। पात्रम् अर्हति पात्रियः। पात्र्यः।
न्यासः
पात्राद्घ#ँश्च। , ५।१।६७

"ठक्ठञोरपवादः" इति। ननु च पात्रं भाजनम्(), न परिमाणम्(), अतस्तद्वाचिनष्ठक्? प्राप्नोति, तस्यैवापवादो युक्तः, तत्किमुच्यते ठक्ठञोरपवादः? इत्याह--"पात्रं परिमाणमप्यस्ति" इति। न केवलं भाजनमित्यपिशब्देन दर्शयति। तत्र यदा परिमाणे पात्रशब्दो वत्र्तते, तदा ठञोऽपवादः; यदा भाजने, तदा ठकः। पात्रं स्थाल्यादि। कोऽर्थः? चण्डालादिर्बाह्रश्च पात्रं परिमाणमर्हति। येन भुक्ते पुनर्न संस्कारेण भाजनं शुध्यति स पात्रियः, पात्र्य इति चोच्यते॥
बाल-मनोरमा
पात्राद्धंश्च १७०९, ५।१।६७

पात्राद्धंश्च। पात्रियः प्रात्र्य इति। पात्रमर्हतीत्यर्थः।