पूर्वम्: ५।१।६
अनन्तरम्: ५।१।८
 
सूत्रम्
खलयवमाषतिलवृषब्रह्मणश्च॥ ५।१।७
काशिका-वृत्तिः
खलयवमाषतिलवृषब्रह्मणश् च ५।१।७

खलाऽदिभ्यो यत् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। खलाय हितम् खल्यम्। यव्यम्। माष्यम्। तिल्यम्। वृष्यम्। ब्रह्मण्यम्। वृष्णे हितम्, ब्राह्मणेभ्यो हितम् इति वाक्यम् एव भवति। छप्रत्ययो ऽपि न भवति, अनभिधानात्। चकारो ऽनुक्तसमुच्चयार्थः। रथाय हिता रथ्या।
न्यासः
खलयवमाषतिलवृषब्राहृणश्च। , ५।१।७

खलादीनां वृषपर्यन्तानां "यस्येति" ६।४।१४८ लोपः। "ब्राहृण्यम्()" इति। "न संयोगाद्वमन्तात्()" (६।४।१३७) इति प्रतिषेधात्? "अल्लोपोऽनः" ६।४।१३४ इत्यकारलोपो न भवति। "नस्तद्धिते" ६।४।१४४ इति टिलोपोऽपि न भवित; "ये चाभावकर्मणोः" ६।४।१६८ इति प्रकृतिभावात्()। वृषशब्दोऽयमत्राकारान्तो गृह्रते, न तु ब्राआहृणशब्दोऽकारान्त इति। ननु चाशङ्का वृषशब्दे युक्ता-नलोपे सति किमयमकारान्तः? आहोस्विन्नकारान्तः? इति, ब्राहृन्शब्दाच्च यतो निवृत्तिप्रसङ्गाद्? ब्राहृञ्शब्दादपि यचच प्रत्ययो निवत्र्तत इति भावः। अत एवाह--"छप्रत्ययोऽपि" इत्यादि। यत्प्रत्ययापेक्षयापिरयम्()--न केवलं यत्प्रत्ययो न भवति, अपि तु च्छप्रत्ययोऽपीति। ब्राआहृणशब्दाच्छप्रत्ययाभावो योज्यः। ननु चाभ्यामिहानुपादनाद्? यत्प्रत्ययो न भवति, "तस्मै हितम्()" (५।१।५) इति च्छप्रत्ययस्तु कस्मान्न भवति? इत्याह-"अनभिधानात्()" इति। न हीह वृषीयम्(), ब्राआहृणीयमित्युक्ते विवक्षितोऽर्थः प्रतीयते; यतोऽर्थप्रतिपादनं प्रति नियता एव शब्दशक्तयो भवन्तीति क्वचित्? प्रत्ययान्तेनार्थस्याभिधानम्()ष क्वचिद्वाक्येनेति। अतो वाक्यमेवावतिष्ठते-"वृष्णे हितम्(), ब्राआहृणेभ्यो हितम्()" इति। वाक्यसमधिगम्यस्यार्थस्य तद्धितेनानभिधानादितदि यावत्()॥
बाल-मनोरमा
खलयवमाषतिलवृषब्राहृणश्च १६४६, ५।१।७

खलयव। खलादिभ्यश्चतुथ्र्यन्तेभ्यो हितमित्यर्थे यत्स्यादित्यर्थः। वृषशब्दोऽत्र अकारान्त एव गृह्रते, नतु नकारान्तः। तेन "वृष्णे हित"मिति वाक्यमेव। ब्राहृन्शब्दो ब्राआहृणवाच्येव गृह्रते, नतु वेदादिवाची। तेन "ब्राहृणे वेदाय हित"मिति वाक्यमेवेति भाष्ये स्पष्टम्। ब्राहृण्यमित्यत्र "ये चाभावकर्मणो"रिति प्रकृतिभावान्न टिलोपः। चाद्रथ्येति। चकारस्यानुक्तसमुच्चयार्थत्वादिति भावः।

तत्त्व-बोधिनी
खलयवमाषतिलवृषब्राहृणश्च १२७१, ५।१।७

खलयव। अत्र वृषशब्दोऽकारान्तो गृह्रते न तु नकारान्तः। अन्यथा ह्रसदेहार्थं नलोपमकृत्वै निर्दिशेत्, "आत्मन्वि()आजने"ति वत्। वृषाय हितं वृष्यम्। नान्ताद्यति तु ----वृषण्यमिति स्यात्। ब्राहृण्यमिति। ब्राहृन्शब्दो ब्राआहृणपर्यायः। प्रकृतिभावस्तु "ये चे"त्यनेन पूर्ववत्। इह वृषन्शब्दाद्द्ब्राहृणशब्दाच्च यतः प्राप्तिरेव नास्ति। छेऽप्यनभिधानान्नेत्याकरः। तेन---वृष्णे हितं , ब्राआहृणेभ्यो हितमिति वाक्यमेव। चाद्रथ्येत। गवादिषुरथशब्दो न पठितः। हितार्थ एव रथ्येति स्यात्, अर्थान्तरे मा भूदिति।