पूर्वम्: ५।१।६८
अनन्तरम्: ५।१।७०
 
सूत्रम्
स्थालीबिलात्॥ ५।१।६९
काशिका-वृत्तिः
स्थालीबिलात् ५।१।७०

छयतौ अनुवर्त्तेते स्थालीबिलशब्दाच् छयतौ प्रत्ययौ भवतः तदर्हति इत्यस्मिन्नर्थे। ठको ऽपवादौ। स्थालीबिमलर्हन्ति स्थालीबिलीयाः तण्डुलाः, स्थालीबिल्याः। पाक्योग्याः इत्यर्थः।
न्यासः
स्थालीबिलात्?। , ५।१।६९

"छयतावनुवर्तेते" इति। ननु चानुकृष्टमुत्तरत्र नानुवत्र्तत इति चानुकृष्टस्य यतः पुनरिह चकारेणानु-वृत्तिर्नोपपद्यते? नैष दोषः; अनित्या ह्रेषा परिभाषा। कथं ज्ञायते? "एकाजुत्तरपदे णः" ८।४।१२ इत्यत्र णे प्रकृते पुनर्णग्रहणात्()। तद्धि "वा भावकरणयोः" ८।४।१० इत्यनुवत्र्तमानस्य विकल्पस्य निवृत्त्यर्थं क्रियते। यदि चेयं नित्या स्यातद्(), पूर्वसूत्रे चानुकृष्टत्वादेव हि तस्यानुवृत्तिर्न भवति। अथ वा--चकारोप्यत्रानु-वत्र्तते यतोऽनुकर्षणार्थः। तेन पूर्वत्र चानुकृष्टस्यापि तस्य पुनरिह चकारेणानुकृष्यमाणस्यानुवृत्तिर्भविष्यति। "स्थालीबिलकडङ्गरदक्षिणाच्छ च" इत्येकयोगे कत्र्तव्ये यदिदं योगविभागकरणं तत्स्थालीबिलाद्विशेषे वत्र्तमानात्? प्रत्ययो यथा स्यादित्येवमर्थम्()। तेन स्थालोमुख एव वत्र्तमानः स्थालीविलशब्दः प्रत्ययमुत्पादयति। न तु स्थालीसम्बन्धिनि च्छिद्रमात्रे वत्र्तमानः॥
बाल-मनोरमा
स्थालीबिलात् १७११, ५।१।६९

स्थालीबिलात्। छयतावनुवर्तेते, तदर्हतीति च।

तत्त्व-बोधिनी
स्थालीबिलात् १३२२, ५।१।६९

स्थालीबिलात्। छयतावनुवर्तेते। अस्माच्छयतौ स्तः। ठकोऽपवादः। पाकयोग्या इति। त्रिष्फलीकृता इति यावत्।