पूर्वम्: ५।१।७०
अनन्तरम्: ५।१।७२
 
सूत्रम्
पारायणतुरायणचान्द्रायणं वर्तयति॥ ५।१।७१
काशिका-वृत्तिः
पारायणतुरायणचाद्न्रायणं वर्तयति ५।१।७२

समर्थविभक्तिरनुवर्तते। अर्हति इति निवृत्तम्। पारायणादिभ्यो द्वितीयासमर्थेभ्यः वर्तयति इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। पारायणं वर्तयति अधीते पारायणिकश्छात्रः। तौरायणिको यजमानः। चान्द्रायणिकस्तपस्वी।
बाल-मनोरमा
पारायणतुरायटणचान्द्रायणं वर्तयति १७१३, ५।१।७१

अथ तद्धिते प्राग्वतीये ठञधिकारे कालाधिकारो निरूप्यते--अतः परं ठञेवेति। आर्हीयेष्वर्थेषु प्राग्वतीयठ()ञपवादा आर्हीयाष्ठगादयः। आर्हीयार्थेषु निरूपितेषु तत ऊध्र्वं ठगादिप्रत्ययानामनुवृत्तेरसम्भवात्प्राग्वतीयष्ठञेवानुवर्तत इत्यर्थः। पारायण। "द्वितीयान्तेभ्यः पारायणादिशब्देभ्यो वर्तयतीत्यर्थे ठञ्स्यादित्यर्थः। पारायणं वर्तयतीति। पारायणं--वेदाध्ययनम्। तद्वर्तयति=आवर्तयतीत्यर्थः। पारायणिकः छात्र इति। गुरौ त्वध्येतरि नायं प्रत्ययः, अनभिधानादिति भावः। तौरायणिको यजमान इति। ऋत्विजिनायं प्रत्ययः, अनभिधानादिति भावः। चान्द्रायणिक इति। चान्द्रायणं कृच्छ्रविशेषः।

तत्त्व-बोधिनी
पारायणतुरायणचान्द्रायणं वर्तयति १३२४, ५।१।७१

पारायण। आदित आरभ्य आन्तादविच्छेदेन वेदस्याध्ययनं पारायणम्। तच्च शिष्येण च निर्वत्र्यते, अन्यतराऽसंनिधौ अध्ययनक्रियाया अनिष्पादनात्, तथापि शिष्ये एव प्रत्यय इष्यते न तु गुरावित्याकरे स्थितम्। तदाह---छात्र इति। यजमान इति। यद्यपि पुरोडाशादिनिर्वर्तनेन ऋत्विगपि यज्ञं वर्तयति, तथापि तत्र "तौरायणिक"इति न प्रयुज्यते, अनभिधानादिति भावः। चान्द्रायणं----व्रतविशेषः।