पूर्वम्: ५।१।७१
अनन्तरम्: ५।१।७३
 
सूत्रम्
संशयमापन्नः॥ ५।१।७२
काशिका-वृत्तिः
संशयमापन्नः ५।१।७३

संशयशब्दाद् द्वितीयासमर्थातापन्नः इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। संशयम् आपन्नः प्राप्तः सांशयिकः स्थाणुः।
न्यासः
संशयमापन्नः। , ५।१।७२

अत्रापि द्वितीयाप्रकरणे पुनर्द्वितीयोच्चारणमिष्टविषये द्वितीयान्ताद्यथा स्यादित्येवमर्थम्()। तेन यद्यपि द्वे अपि कर्तृकर्मणी संशयमापन्ने, तथापि यद्विषयः संशय उत्पद्यते तत्रैव कर्मणि स्थाण्वादौ प्रत्ययो भवति, न तु संशयस्य कत्र्तरि पुरुषे; अनभिधानात्()॥
बाल-मनोरमा
संशयमापन्नः १७१४, ५।१।७२

संशयमापन्नः। अस्मिन्नर्थे संशयशब्दाद्द्वितीयान्ताट्ठक्स्यादित्यर्थः। अत्र "आपन्न" इति कर्तरि क्तः। विषयतया प्राप्त इत्यर्थः, उपसर्गवशात्। संशयविषयीभूतोऽर्थ इति। तेन समवायेन संशयाधारे संदेग्धरिनायं प्रत्यय इति भावः। अमरस्तु "सांशयिकः संशयापन्नमानसः" इत्याह।

तत्त्व-बोधिनी
संशयमापन्नः १३२५, ५।१।७२

विषयीभूतोऽर्थ इति। "स्थाणुर्वा पुरुषो वे"तित संशयविषयीभूते स्थाण्वादावेव प्रत्यय इष्यते, न तु संदेग्धरीति भावः। कथं तर्हि "सांशयिकऋ संशयापन्नमानसः"इत्यमर इति चेत्। अत्राहुः------संशयापन्नं मानसं यस्मिन्विषये स विषयः संशयापन्नमानस इति।

ततोऽभामनमर्हतीति च वक्तव्यम्। ततोऽभिगमनमिति। अत्र पञ्चम्यन्तात्प्रत्ययः।