पूर्वम्: ५।१।७३
अनन्तरम्: ५।१।७५
 
सूत्रम्
पथः ष्कन्॥ ५।१।७४
काशिका-वृत्तिः
पथः ष्कन् ५।१।७५

पथिन्शब्दाद् द्वितीयासमर्थाद् गच्छति इत्यस्मिन्नर्थे ष्कन् प्रत्ययो भवति। नकारः स्वरार्थः। षकारो ङीषर्थः। पन्थानं गच्छति पथिकः। पथिकी।
न्यासः
पथः ष्कन्?। , ५।१।७४

बाल-मनोरमा
पथः ष्कन् १७१६, ५।१।७४

पथः ष्कन्। पथः ष्कन्नितिच्छेदः। द्वितीयान्तात्पथिन्शब्दाद्गच्छतीत्यर्थे ष्कन् स्यादित्यर्थः।