पूर्वम्: ५।१।७५
अनन्तरम्: ५।१।७७
 
सूत्रम्
उत्तरपथेनाहृतं च॥ ५।१।७६
काशिका-वृत्तिः
उत्तरपथेनाहृतं च ५।१।७७

निर्देशादेव समर्थविभक्तिः। उत्तरपथशब्दाद् तृतीयासमर्थाताहृतम् इत्येतस्मिन् विषये ठञ् प्रत्ययो भवति। चकारः प्रत्ययार्थसम् उच्चये, गच्छति इति च। अत्र अपि तृतीया एव समर्थविभक्तिः। उत्तरपथेनाऽहृतम् औत्तरपथिकम्। उत्तरपथेन गच्छति औत्तरपथिकः। आहृतप्रकरणे वारिजङ्गलस्थल्कान्तारपूर्वपदादुपसङ्ख्यानम्। वारिपथेन आहृतम् वारिपथिकम्। वारिपथेन गच्छति वारिपथिकः। जङ्गलपथेन आहृतम् जाङ्गलपथिकम्। जङ्गलपथेन गच्छति जाङ्गलपथिकः। स्थलपथेन आहृतम् स्थालपथिकम्। स्थलपथेनगच्छति स्थालपथिकः। कान्तारपथेन आहृतम् कान्तारपथिकम्। कान्तारपथेन गच्छति कान्तारपथिकः। अजपथशङ्कुपथाभ्यां च उपसङ्ख्यानम्। अजपथेन आहृतम् आजपथिकम्, गच्छति वा आजपथिकः। शङ्कुपथेन आहृतम् शाङ्कुपथिकम्। गच्छति वा शाङ्कुपथिकः। मधुकमरिचयोरण् स्थलात्। स्थलपथेन आहृतम् स्थालपथं मधुकम्।
न्यासः
उत्तरपथेनाह्मतञ्च। , ५।१।७६

"चकारः प्रत्ययार्थ" इति। प्रत्ययार्थसमीपे श्रूयमाणत्वात्()। गच्छतीत्यत्र पूर्वं द्वितीयान्तात्? प्रत्यय उत्पन्नः। तदिहापि तत एव प्रत्ययेन भवितव्यमिति भ्रान्तिः स्यात्()। अतस्तां निराकर्त्तुमाह--"अत्रापि" इत्यादि। चकारो ह्रर्थात्? परः श्रूयमाणोऽत्रार्थमात्रस्यैव गच्छतोत्यस्यानुकर्षकः प्रतीयते, न तु विभक्तेरपि; सम्बन्धाभावात्()। तस्मात्? स इहानुवृत्तः सन्निहितया समर्थविभक्त्या सम्बध्यमानस्तृतीयासमर्थादेव प्रत्ययमुत्पादयतीति भावः। "वारिजङ्गल" इत्यादि। वार्यादयः पूर्वपदं यस्य तत्? तथोक्तम्()। एतयोरेवार्थयोरुपसंक्यानम्()। "मधुकमरिचयोः" इत्यादि। मधुकमरिचयोरभिधेययोः स्थलात्? परो यः पथिन्शब्दः, तदन्तादाह्मते वक्तव्यः
बाल-मनोरमा
उत्तरथेनाह्मतं च १७१८, ५।१।७६

उत्तरपथेनाह्मतं च। उत्तरपथशब्दात्तृतीयान्तादाह्मतमित्यर्थे, गच्छतीत्यर्थे च ठञ्स्यादित्यर्थः।

वारिजङ्गलेति। वारि, जङ्गल, स्थल, कान्तार--एतत्पूर्वात्पथिन्शब्दात्तृतीयान्तादाह्मतमिति, गच्छतीति चार्थे ठञित्यर्थः। वारिपथेन गच्छति, आह्मतं वेत्यर्थः। जाङ्गलपाथिकः, स्थालपथिकः, कान्तारपथिकः।

तत्त्व-बोधिनी
उत्तरपथेनाह्मतं च १३२७, ५।१।७६

उत्तरपथेन गच्छतीति। वारिपथिकमिति। वारिपथेन गच्छ [ती]ति, वारिपथेनाह्ममिति वा विग्रहः।