पूर्वम्: ५।१।७६
अनन्तरम्: ५।१।७८
 
सूत्रम्
कालात्॥ ५।१।७७
काशिका-वृत्तिः
कालात् ५।१।७८

कालातित्यधिकारः। यदित ऊर्ध्वम् अनुक्रमिष्यामः कालातित्येवं तद् वेदितव्यम्।
न्यासः
कालात्?। , ५।१।७७

कालादिति स्वरूपग्रहणं न भवति, कुतः? पृथगस्य योगस्यारम्भात्()। कालशब्दस्यापि यदि स्वरूपग्रहणम भीष्टं स्यादिमं पृथग्योगमकृत्वोत्तरसूत्रे कालशब्दादेव तृतीयामुच्चारयेत्()--कालेन निर्वृत्तमिति। एवं हि निर्देशादेव तृतीयासमर्थात्? प्रत्ययो विज्ञायते। उत्तरसूत्रे च कालशब्दः स्वरितत्वादनुवर्त्तिष्यत इति सिद्धमिष्टम्()। अतो न कत्र्तव्य एवायं पृथग्योगः। स एव क्रियतेऽर्थग्रहणं तदिति दर्शयितुम्()॥
बाल-मनोरमा
कालात् १७१९, ५।१।७७

कालात्। इत्यतः प्रागिति। व्याख्यानादिति भावः।

तत्त्व-बोधिनी
कालात् १३२८, ५।१।७७

कालात्। स्वरूपग्रहणमिह न भवति, "तमधीष्टो भृतो भूतो भावी"त्यत्यन्तसंयोगे द्वितीयानिर्देशात्। "मासाद्वयसो"त्यादौ मासादीनां कालेन विशेषणाच्च।