पूर्वम्: ५।१।७
अनन्तरम्: ५।१।९
 
सूत्रम्
अजाविभ्यां थ्यन्॥ ५।१।८
काशिका-वृत्तिः
अजाविभ्यां थ्यन् ५।१।८

अज अवि इत्येताभ्यां थ्यन् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। अजथ्या यूथिः। अविथ्या।
न्यासः
अजाविभ्यां थ्यन्?। , ५।१।८

अजशब्दोऽयमिह पुंल्लिङ्ग उपात्तः; अविशब्दस्य ध्यन्तशब्दस्यापूर्वनिपातात्()। आबन्तस्य ग्रहणे ह्रदिशब्दस्य पूर्वनिपातः स्यात्। अदन्तस्य ग्रहणे "द्वन्द्वे धि" (२।२।३२) इत्येतस्य बाधितत्वात्? "अजाद्यदन्तम्()" २।२।३३ इत्यजब्दस्य पूर्वनिपातो युज्यते। तस्मात्? पुंल्लिङ्गस्य ग्रहणम्()। तथा व "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति" (व्या।प।२९) इति स्त्रीलिङ्गादपि प्रत्ययो भवत्येव-अजाभ्यो हितमजथ्यम्()। "तसिलादिष्वाकृत्वसुचः" ६।३।३४ इति पुंवद्भावः। परिसंख्यायन्ते हि तत्र तसिलादयः, तेषाञ्च मध्ये परिसंख्यातौ --------ग्रहणे शब्दान्तरतवादिकरान्तात् पुंल्लिङ्गान्न स्यात्()॥
बाल-मनोरमा
अजाविभ्यां थ्यन् १६४७, ५।१।८

अजाविभ्यां थ्यन्। अजश्च अविश्चेति द्वन्द्वः। अविशब्दस्य धित्वेऽपि "अजाद्यदन्त"मित्यजशब्दस्य पूर्वनिपातः। अजथ्या यूथिरिति। अजेभ्योऽजाभ्यो वा हितेत्यर्थः। लिङ्गविशिष्यपरिभाषा अजाशब्दादपि थ्यन्। "तसिलादिष्वि"ति पुंवत्त्वम्। अविथ्येति। अविभ्यो हितेत्यर्थः। स्त्रीत्वं लोकात्।

तत्त्व-बोधिनी
अजाविभ्यां थ्यन् १२७२, ५।१।८

अजादिभ्याम्। अजशब्द इह पुंलिङ्ग उपात्तः। अतएव "द्वन्द्वे घी"त्यविशब्दस्य पूर्वनिपातं बाधित्वा "अजाद्यदन्त"मिति अजशब्दस्य पूर्वनिपातः कृतः। "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापी"ति स्त्रीलिङ्गादपि थ्यन्। तसिलादिषु थ्यनः परिगणनात्पुंवद्भावे रूपं तुल्यम्। अजथ्येति। अजेभ्यो आजाङ्यो वा हितेति विग्रहः।