पूर्वम्: ५।१।८०
अनन्तरम्: ५।१।८२
 
सूत्रम्
द्विगोर्यप्॥ ५।१।८१
काशिका-वृत्तिः
द्विगोर् यप् ५।१।८२

मासाद् वयसि ति वर्तते। मासान्ताद् द्विगोर् यप् प्रत्ययो भवति वयस्यभिधेये। द्वौमासौ भूतः द्विमास्यः। त्रिमास्यः।
न्यासः
द्विगोर्यप्?। , ५।१।८१

"प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि" इति (काशिका। ५।१।२०) तदन्तविदेरभ्यनुज्ञानाद्()द्विगोरपि ----। ययः पित्करणननुदात्तार्थम्()। अन्यथा मासशब्दान्तात्? प्रत्यये विहिते सिति शिष्टत्वात्? "इगन्तकाल" (६।२।२९) इति द्विगावेवेति स्वरबाधनात्? प्रत्ययस्वरः स्यात्(), ---- स्यात्()। प्रत्ययेऽनुदात्तार्थे पिति "इगन्त" ६।२।२९ इति पूर्वपदप्रकृतिस्वरः सिद्धो भवति॥
बाल-मनोरमा
द्विगोर्यप् १७२३, ५।१।८१

द्विगोर्यप्। अनुवर्तत इति। मासान्ताद्()द्विगोर्भूत इत्यर्थे यप्स्याद्वयसि गम्ये इत्यर्थः।

तत्त्व-बोधिनी
द्विगोर्यप् १३३१, ५।१।८१

द्विगोर्यप्। प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्पूर्वेण यत्खञोः प्राप्तयोर्यब्विधीयते। पित्त्वादनुदात्तःष। तेन "द्विमासः"इत्यादौ "इदन्तकाले"त्यादिना पूर्वपदप्रकृतिस्वरोऽवतिष्ठते। "यः"इत्युक्ते तु प्रत्ययस्योदात्तत्वादन्तोदात्तो द्विमासः स्यात्, सति शिष्टस्वरबलीयस्त्वादिति भावः।