पूर्वम्: ५।१।८१
अनन्तरम्: ५।१।८३
 
सूत्रम्
षण्मासाण्ण्यच्च॥ ५।१।८२
काशिका-वृत्तिः
षण्मासाण् ण्यच् च ५।१।८३

वयसि इत्येव। षण्मासशब्दाद् वयस्यभिधेये ण्यत् प्रत्ययो भवति, यप् च। औत्सर्गिकष्ठञपीष्यते, स चकारेण समुच्चेतव्यः। स्वरितत्वाच्चानन्तरो ऽनुवर्तिष्यते। तेन त्रैऋऊप्यं भवति। षाण्मासय्H, षण्मास्यः, षाण्मासिकः।
न्यासः
षण्मासाण्ण्यच्च। , ५।१।८२

षण्मासशब्दो द्विगुः। तस्मात्? पूर्वेण यपि प्राप्ते वचनम्()। "स चकारेण समुच्चेतव्यः" इति। यद्येवम्(), कथमनन्तरो यब्भवति? इत्याह--"स्वरितत्वाच्चानुवर्त्तिष्यते" इति। तेनानुवृत्तिसामथ्र्यादनन्तरो यब्भवतीति मन्यते॥
बाल-मनोरमा
षण्मासाण्ण्यच्च १७२४, ५।१।८२

अत्र चकारात्सन्निहितस्य यपोऽनुकर्षणे ण्यद्यवावेव स्यातां, नतु ठञपि। इष्यते तु ठञपि। तत्राह--यवप्यनुवर्तत इति। स्वरितत्वादिति भावः। तर्हि चकारः किमर्थ इत्यत आह--चाट्ठञिति। तथा च ण्यत् यप्-ठिञिति त्रयः प्रत्ययाः फलिताः।

तत्त्व-बोधिनी
षण्मसाण्ण्यच्च १३३२, ५।१।८२

यबप्यनुवर्तत इति। व्याख्यानमेवात्र शरणम्।