पूर्वम्: ५।१।८३
अनन्तरम्: ५।१।८५
 
सूत्रम्
समायाः खः॥ ५।१।८४
काशिका-वृत्तिः
समायाः खः ५।१।८५

अधीष्टाऽदयश्चत्वारो ऽर्था अनुवर्तन्ते। समाशब्दाद् द्वितीयास्मार्थादधीष्टादिषु अर्थेषु खः प्रत्ययो भवति। ठञो ऽपवादः समामधीष्टो भृतो भूतो भावी वा समीनः। केचित् तु तेन निर्वृत्तम् ५।१।७८ इति सर्वत्र अनुवर्तयन्ति। समया निर्वृत्तः समीनः।
न्यासः
समायाः खः। , ५।१।८४

बाल-मनोरमा
समायाः खः १७२६, ५।१।८४

समायाः खः। मण्डूकप्लुत्या "तमधीष्टो भृतो भूतो भावी"ति कृत्स्नमेव सूत्रमनुवर्तते। समाशब्दाद्द्वितीयान्तादधीष्टादिष्वर्थेषु खः स्यादित्यर्थः।

तत्त्व-बोधिनी
समायाः खः १३३३, ५।१।८४

समायाः खः। "हायनोऽस्त्री शरत्समाः"इत्यमरः। समामधीष्ट इत्यादि। अधीष्टादय श्चात्वारोऽर्था अत्राप्यनुवर्तन्त इति भावः।