पूर्वम्: ५।१।८६
अनन्तरम्: ५।१।८८
 
सूत्रम्
वर्षाल्लुक् च॥ ५।१।८७
काशिका-वृत्तिः
वर्षाल् लुक् च ५।१।८८

द्विगोः इत्येव। वर्षान्ताद् द्विगोर् निर्वृत्तादिष्वर्थेषु वा खः प्रत्ययो भवति। पक्षे ठञ्। तयोश्च वा लुग् भवति। एवं त्रीणि रूपाणि भवन्ति। द्विवर्षीणो व्याधिः, द्विवार्षिकः, द्विवर्षः। त्रिवर्षीणः, त्रिवार्षिकः, त्रिवर्षः। वर्षस्य अभविष्यति ७।३।१६ इत्युत्तरपदवृद्धिः। भाविनि तु त्रैवर्षिकः।
न्यासः
वर्षाल्लुक्? च। , ५।१।८७

"भाविनि तु त्रैवर्षिकः" इति। तत्र हि "अभविष्यति" ७।३।१६ इति वचनात्()। इहादिवृद्धिरेव भवति॥
बाल-मनोरमा
वर्षाल्लुक् च १७३०, ५।१।८७

वर्षाल्लुक् च। वा च लुगिति। "खठञो"रिति शेषः। द्विवर्षीम इति। खे रूपम्। द्विवर्ष इति। खठञोर्लुकि रूपम्।

तत्त्व-बोधिनी
वर्षाल्लुक् च १३३७, ५।१।८७

द्विवर्षीणो ब्याधिरिति। द्विवार्षिको मनुष्य इति। अत्र वदन्ति---मनुष्ये "चित्तवती"ति नित्यलुक्प्रसङ्गात् "मनुष्यो मनुष्यसदृशः प्रतिमादिः"इति व्याख्याय स्थितस्य गतिः समर्थनीयेति।