पूर्वम्: ५।१।८७
अनन्तरम्: ५।१।८९
 
सूत्रम्
चित्तवति नित्यम्॥ ५।१।८८
काशिका-वृत्तिः
चित्तवति नित्यम् ५।१।८९

चित्तवति प्रत्ययार्थे ऽभिधेये वर्षशब्दान्ताद् द्विगोर् निर्वृत्तादिष्वर्थेषु उत्पन्नस्य प्रत्ययस्य नित्यं लुग् भवति। पूर्वेण विकल्पे प्राप्ते वचनम्। द्विवर्षो दारकः। चित्तवति इति किम्? द्विवर्षीणो व्याधिः।
न्यासः
चित्तवति नित्यम्?। , ५।१।८८

यदि चित्तवति प्रत्ययार्थे नित्यं लुग्भवति, "वर्षस्याभविष्यति" ७।३।१६ इत्यत्र यद्वक्ष्यति--"द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतोति द्विवार्षिको मनुष्यः" इत, तद्विरुध्यते; न हि नित्ये लुक्यधीष्टभृतयोरुत्पन्नस्य प्रत्ययस्य चित्तवत्यभिधेय एवं रूपमुपपद्यते? नैष दोषः; भूत एवास्योत्पन्नस्य प्रत्ययस्य चित्तवति नित्यं लुगिष्यते, न सर्वत्र। कुत एतत्()? नित्यग्रहणात्()। इह नित्यग्रहणमनर्थकमेव। आरम्भसामथ्र्यादेव नित्यो लुग्भविष्यतीति किं नियमग्रहणेन? तत्? क्रियते विशिष्टेऽर्थे नित्यो लुग्यथा स्यादित्येवमर्थम्()। स पुनर्विशिष्टो भूत एव॥
बाल-मनोरमा
चित्तवति नित्यम् १७३२, ५।१।८८

चित्तवति नित्यं। प्रत्ययस्येति। खस्य ठञश्चेत्यर्थः। दारकः। बालकः।

तत्त्व-बोधिनी
चित्तवति नित्यम् १३३८, ५।१।८८

दारक इति।बालकः। "परिजय्ये"त्यस्य विवरणं "जेतुं शक्यः"इति। "क्षय्यजय्यौ शक्यार्थे"इत्ययादेशः।

महानाम्न्यादिभ्यः षष्ठ()न्तेभ्य उपसङ्ख्यानम्। महानाम्न्योनामेति।तथा चाऽभाषितपुंस्कत्वात्पुंवद्भावो नेति भावः। हरदत्तिस्त्विति। यौगिकोऽयं, न तु रूढ इति मन्यते। माहानामिक इति। पुंवद्भावे कृते "नस्तद्धिते इति टिलोपः।

चतुर्मासाण्ण्यो ज्ञे तत्र भव इत्यर्थे। चतुर्मासादिति। मासशब्दस्य कालवाचित्वात्कालाधिकारे वार्तिकारम्भः। न च विशिष्टस्य कालवाचित्वाऽभावादिह सङ्गतिदुर्निरूपेति शङ्क्यं, "प्राग्वतेः संर()ख्यापूर्वपदानां तदन्तग्रहण"मित्यभ्युपगमादस्त्येव सङ्गतिरिति।

अण्संज्ञायाम्। अण्संज्ञायामिति। "तत्र भवः" इत्यनेनैव सिद्धे पुनरण्विधिः "द्विगोर्लुगनपत्ये"इति लङ्बा भूदित्येतदर्थमिदमत्रारब्धम्। एवं चास्मिन् वार्तिके "चतुर्मासा"दित्यस्यानुवृत्तये पूर्ववार्तिकमत्रैवारब्धमित्यपि ज्ञेयम्। चातुर्मासीति। कस्य संज्ञेत्याकाङ्क्षायामाह---आषाढीति। आषाढानक्षत्रयुक्ता पौर्णमासीत्यर्थः।