पूर्वम्: ५।१।८
अनन्तरम्: ५।१।१०
 
सूत्रम्
आत्मन्विश्वजनभोगोत्तरपदात् खः॥ ५।१।९
काशिका-वृत्तिः
आत्मन्विश्वजनभोगौत्तरपदात् खः ५।१।९

आत्मन् विश्वजन इत्येताभ्यां भोगोत्तरपदाच् च प्रातिपदिकात् खः प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। आत्मन्निति नलोपो न कृतः प्रकृतिपरिमाणज्ञापनार्थम्। तेन उत्तरपदग्रहणम् भोगशब्देन एव सम्बध्यते, न तु प्रत्येकम्। आत्मने हितम् आत्मनीनम्। आत्माध्वानौ खे ६।४।१६९ इति प्रकृतिभावः। विश्वजनेभ्यो हितम् विश्वजनीनम्। कर्मधारयादेव इष्यते। षष्ठीसमासाद् बहुव्रीहेश्च छ एव भवति। विश्वजनाय हितम् विश्वजनीयम्। पञ्चजनादुपसङ्ख्यानम्। पञ्चजनाच् च खः। अत्र अपि कर्मधारयादिष्यते। पञ्चजनीनम्। अन्यत्र पञ्चजनीयम्। सर्वजानाट् ठञ् खश्च। सार्वजनिकम्, सर्वजनीनम्। अत्र अपि कर्मधारयादेव। सर्वजनीयम् अन्यत्र। महाजनान्नित्यं ठञ् वक्तव्यः। महाजनाय हितम् माहाजनिकम्। तत्पुरुषादेव। बहुव्रीहेस् तु छ एव भवति। महाजनीयम्। भोगोत्तरपदात् खल्वपि मातृभोगीणः। पितृभोगीणः। भोगशब्दः शरीरवाची। केवलेभ्यो मात्रादिभ्यः छ एव भवति। मात्रीयम्। पितिरियम्। राजाचार्याभ्यां तु नित्यम्। भोगोत्तरपदाभ्यम् एव खः प्रत्ययः इष्यते, न केवलाभ्याम्। राजभोगीनः। आचार्यादणत्वं च। आचार्यभोगीनः। केवलाभ्यां वाक्यम् एव भवति, राज्ञे हितम्, आचार्याय हितम् इति।
लघु-सिद्धान्त-कौमुदी
आत्मन्विश्वजनभोगोत्तरपदात्खः ११४४, ५।१।९

न्यासः
आत्मन्वि�आजनबोगोत्तरपदात्? खः। , ५।१।९

अयात्मन्नित्यत्र नलोपः कस्मान्न कृतः, यावता द्वन्द्वेनायं निर्देशः क्रियते, तत्र "नलोपः प्रातिपदिकान्तस्य" (८।२।७) इति नलोपः प्राप्नोति? इत्यत आह-"आत्मन्()" इत्यादि। आत्मन्नित्येव भवत्येषा प्राकृतिरिति ज्ञापनार्थं नलोपो न कृतः। कः पुनरेवं सति विशेषः? इत्याह-"तेन" इत्यादि। गतार्थम्()। यद्येवम्(), वि()आजनशब्देन ह्रुत्तरपदस्य सम्बन्धः प्राप्नोति? एवं मन्यते-आत्मन्निति नलोपाबावेन प्रत्येकं वाक्यपरिसमाप्तेव्र्यभिचारस्य दर्शितत्वात्? ततः प्रत्यासतेर्भोगशब्देनैव सम्बध्यते, न तु वि()आजनशब्देनेति नासति दोषः। "कर्मधारयादेवेष्यते" इति। वार्यपारम्पर्योपदेशात्()। विभावाग्रहणानुवृत्तेव्र्यवस्थितविबाषाविज्ञानाद्वेदं वेदितव्यम्()। वि()आस्य जनो वि()आजनः, वि()आओ जनोऽस्येति वि()आजन इति समासेन भवितव्यम्()। यथा खो न भवति तथा च्छोऽपि न भवतीत्याशङ्क्याह-"बहुव्रीहिस्तु" इत्यादि। "उपसंख्यानम्()" इति। प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्()-इह हि भोगसमासादिति वाक्तव्ये उत्तरपदग्रहणमधिकविधानार्थम्()। न चैवं सति बहुपूर्वादीषदसमाप्तौ भोगो बहुभोग इत्यस्मात्? खः स्यादित्याशङ्कनीयम्(); बहुच्प्रच्प्रत्ययस्य समासाबावात्()। ततोऽत्रि छेनैव भवितव्यम्()--बहुभोगीय इति। तेन पञ्चजनादपि भविष्यति। संज्ञाशब्दश्चायम्(); "दिक्संख्ये संज्ञायाम्()" २।१।४९ इति समासः। तथा सर्वजनादपि वेदितव्यः। "तत्पुरुषादेव" इति। विशेषानभिधानेऽपि महाजनादिति निर्देशादेव समानाधिकरणादेव भोगशब्दोऽयं भावसाधनः--भुक्तिर्भोग इति, कर्मसाधनो वा--भुज्यत इति भोग इति। अयमव्युत्पन्नः शरीरवाचीस, तस्येह ग्रहणमित्याह--"भोगशब्दः" इत्यादि। भोगशब्दः शरीरमेव प्रतिपादयतीत्यर्थः। यत्र वत्र्तमानोऽयं साक्षात्? सम्बन्धमाह, तत्रैव खप्रत्ययमासादयति। वत्र्तते च क्रियायां द्रव्ये च। तथा हि--यद्यपि भुजिक्रियया द्रव्येण च सम्बन्धोऽस्ति, तथापि शरीरेण मुख्यः सम्बन्ध इति ततो भवति प्रत्ययः। यथा राजाचार्याभ्यां वाक्यमेव भवति, तथेहापि भवितव्र्यामिति यश्चोदयेत्(), तं प्रत्याह--"आचार्यादणत्वम्()" इति। क्षुभ्नादिपाठात्()। "केवलाभ्यां वाक्यमेव भवत#इ" इति। छप्रत्ययो न भवति, अनर्भिधानादेव॥
बाल-मनोरमा
आत्मन्वि�आजनभोगोत्तरपदात्खः १६४८, ५।१।९

आत्मन्वि()आजन। अत्मजन्, वि()आजन, भोगोत्तरपद-एभ्यो हितमित्यर्थे खः स्यादित्यर्थः। "आत्मनीन"मित्युदाहरणं वक्ष्यति।