पूर्वम्: ५।१।९३
अनन्तरम्: ५।१।९५
 
सूत्रम्
तस्य च दक्षिणा यज्ञाख्येभ्यः॥ ५।१।९४
काशिका-वृत्तिः
तस्य च दक्षिणा यज्ञाख्येभ्यः ५।१।९५

तस्य इति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यो दक्षिणा इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी। वाजपेयिकी। राजसूयिकी। आख्याग्रहणम् अकालादपि यज्ञवाचिनो यथा सयातिति। इतरथा हि कालाधिकारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन्। प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणम् अलुकि ७।३।१७ इति कालाधिकारे ऽपि द्वादशाहादिष्वस्ति प्राप्तिः।
न्यासः
तस्य च दक्षिणा यज्ञाख्येभ्यः। , ५।१।९४

अथाख्याग्रहणं किमर्थम्()? न यज्ञेब्य इत्युच्येत? इत्यत आह--"आख्याग्रहणम्()" इत्यादि। यज्ञानमधेयमात्रादकालवाचिनोऽपि प्रत्ययो यथा स्यादित्येवमर्थमाक्याग्रहणमिति। "इतरथा हि" इत्यादि। यद्याख्याग्रहणं न क्रियोतेत्यर्थः। ननु चैकाहद्वादशाहादयो नैव कालशब्दाः, तत्कुतस्तेषामेवात्रग्रहणप्रसङ्गः? अथाकालवाचिनामप्येषां ग्रहणं सम्भवति? एवं सत्यग्निष्टोमादीनामपि भविष्यतीत्यपार्थकमाख्याग्रहणम्()? इत्यत आह--"प्राग्वतेः" इत्यादि। यद्यप्येते कालशब्दा न भवन्ति, तथापि प्राग्वतेः संख्यापूर्वपदानां तदन्तविधिरभ्यनुज्ञातः। तेन सत्यपि कालाधिकारेऽप्यस्ति तेषु ग्रहणप्रसङ्गः। तथा च तत्र वचनस्य चरितार्थत्वादग्निष्टोमादिभ्यो न स्यात्(), तेभ्योऽपि यथा स्यादित्याख्याग्रहणम्()। ननु चैवमपि सूत्रमनर्थकम्(), या ह्रग्निष्टोमस्य दक्षिणा साप्यग्निष्टोमे भवति। तत्र "बह्वचोऽन्तोदात्ताट्ठञ्()" ४।३।६७ "क्रतुयज्ञेभ्यश्च" (४।३।६८) इत्येव ठञ्? सिद्धः। इदमपि सूत्रं ठञर्थमेवारभ्यते? सत्यमेतत्(), किन्तु भावर्थे "तस्येदम्()" ४।३।१२० इति विवक्षिते तदा परत्वादणादयः स्युरिति युक्तं विधानम्()। अपि च यज्ञाख्येभ्यस्तेन ठञिष्यते। ग्रहणवता प्रातिपदिकेन तदन्तविध्यभावात्? संख्यापूर्वपदेभ्यष्ठञ्? न लभ्येत--द्वयोर्वाजपेययोर्भवा दक्षिणा द्वैवाजपेयिकीति। अनेन च विधानेन "प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि" (काशिका। ५।१।२०) इति ठञ्? सिद्धो भवति। अथापि कथञ्चित्? तदन्तविधिर्भवार्थे लभ्यते, तथापि "द्विगोर्लुगनपत्ये" ४।१।८८ इति लुक्प्रसज्येत। तस्माद्युक्तः सूत्रारम्भः।
बाल-मनोरमा
तस्य च दक्षिणा यज्ञाख्येभ्यः १७३६, ५।१।९४

तस्य च दक्षिणा। तस्य दक्षिणेत्यर्थे यज्ञकालवृत्तिभ्यष्ठञ्स्यादित्यर्थः। द्वादसाहस्येति। द्वादशदिनसाध्यसुत्याकः क्रतुद्र्वादशाहः। तस्येत्यर्थः। कालोपसर्जनक्रतुवाचित्वादयमपि कालवृत्तिरिति भावः। "काला"दित्यधिकारसूत्रे हि यथाकथञ्चित्कालबोधकस्य ग्रहणमिति "तदस्य परिमाण"मिति सूत्रे भाष्ये स्पष्टम्। नन्वेवं सति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकीत्यत्र ठञ्न स्यात्। अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाऽभावादित्यत आह-- आक्याग्रहणादकालादपीति। अन्यथा "यज्ञेभ्य" इत्येव सिद्धे आख्याग्रहणवैयथ्र्यादिति भावः। वस्तुतस्तु "यज्ञेभ्य" इत्येवाक्तौ कालादित्यधिकाराद्द्वादशाहादिशब्देभ्य एव स्यान्नतु अग्निष्टोमादिशब्देभ्यः। आख्याग्रहणे तु अग्निष्टोमादिभ्यो द्वादशाहादिशब्देभ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
तस्य च दक्षिणा यज्ञाख्येभ्यः १३३९, ५।१।९४

तस्य च दक्षिणा। षष्ठ()न्तेभ्यो यज्ञाख्येभ्यो दक्षिणेत्यस्मिन्नर्थे ठञ् स्यात्। कालाधिकारादेवेह द्वादशाहादिभ्यः सिद्धे आख्याग्रहणं व्यर्थमित्याशङ्क्य परिहरति---आख्याग्रहणादिति।