पूर्वम्: ५।१।९४
अनन्तरम्: ५।१।९६
 
सूत्रम्
तत्र च दीयते कार्यं भववत्॥ ५।१।९५
काशिका-वृत्तिः
तत्र च दीयते कार्यं भववत् ५।१।९६

तत्र इति सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकाद् दीयते, कार्यम् इत्येतयोरर्थयोर् भववत् प्रत्ययो भवति। यथा मासे भवं मासिकम्। सांवत्सरिकम्। प्रावृषेण्यम्। वासन्तिकम्। वासन्तम्। हैमनम्। हैमन्तम्। हैमन्तिकम्। शारदम्। वतिः सर्वसादृश्यार्थः। योगविभागश्च अत्र कर्तव्यः, तत्र च दीयते, यज्ञाख्येभ्यः इति। आग्निष्टेमिकं भक्तम्। राजसूयिकम्। वाजपेयिकम्। कालाधिकारस्य पूर्णो ऽवधिः। अतः परं सामान्येन प्रत्ययविधानम्।
न्यासः
तत्र च दीयते कार्यं भववत्?। , ५।१।९५

"यथा मासे भवं मासिकम्()" इत्यादि। "कालाट्ठञ्()" ४।३।११ इति। "प्रावृषेण्यम्()" इति। "प्रावृष एण्यः" ४।३।१७। "वासन्तं शारदम्()" इति। सन्धिवेलादिसूत्रे ४।३।१६ णाण्()। "हैमनम्()" इति। "हेमन्ताच्च" ४।३।२१ इति, "सर्वत्राण्च तलोपश्च" ४।३।२२ इति। वतिः सादृश्यार्थः। "कालेभ्यो भववत्()" ४।२।३३ इत्यत्रैतद्व्याख्यातम्()। तत एवानुगन्तव्यम्()। चकारः कालादित्यनुकर्षणार्थः, तेन चानुकृष्टत्वादुत्तरत्र नानुवत्र्तते, अत आह--"कालाधिकारस्य पूर्णोऽवधिः" इत्यादि। ननु च यन्मासे दीयते कार्यं च तन्मासे भवति; मासाधारत्वात्? तत्सत्तायाः। अतः "तत्र भवः" (४।३।५३) इत्यनेनाणैव सिद्धमिति किमतिदेशेन? एवं तेन सत्यपि भवत्यर्थे कार्यदीयमानयोः कार्यतां दीयमानताञ्च कालान्तात्? तैः प्रत्ययैरपि ख्याययितुमतिदेशः। किञ्चानेन च तत्र भवानामपि न। तेन सति तस्मिन्? तदन्तविधेरिष्टत्वाद्()द्वयोर्मासयोर्दीयते कार्यं वा--द्वैमासिकमिति। अथापि कथञ्चिद्भवार्थेऽपि तदन्तविधिर्गृह्रते, एवमपि "द्विगोः" (४।१।८८) इति लुक्? स्यात्()। ननु चात्रापि विधाने सत्यतिदेशादेव लुक्? प्राप्नोति? वचनसामथ्र्यान्? प्रत्ययमात्रस्यातिदेशो विज्ञास्यते, न सर्वकार्याणामित्यदोषः॥
बाल-मनोरमा
तत्र च दीयते कार्यं भववत् १७३७, ५।१।९५

तत्र च दीयते। "तत्र दीयते" "तत्र कार्य"मित्यर्थयोः सप्तम्यन्तात्कालवाचिनो भववत्प्रत्ययाः स्युरित्यर्थः। प्रावृषेण्यमिति। "प्रावृष एण्यः" इति भवार्थे विहित इहापि भवति। शारदमिति। शरदि दीयते कार्यं वेत्यर्थः। सन्धिवेलाद्यण्भवे विहित इहापि भवति। वस्तुतस्तु तत्र कार्यं दीयते इत्यर्थे यज्ञाख्येभ्यो भववत्प्रत्ययाः स्युरित्यर्थः। अग्निष्टोमे दीयते भक्तम् आग्निष्योमिकम्। कार्यग्रहणादिग्निष्टोमे दीयते हिरण्यमित्यत्र न भवति। न ह्रग्निष्टोमे हिरण्यं क्रियत इति भाष्ये स्पष्टम्। इति प्राग्वतीये ठञधिकारे कालाधिकारः।

तत्त्व-बोधिनी
तत्र च दीयते कार्ये भववत् १३४०, ५।१।९५

तत्र च। कालवाचिनः सप्तम्यन्तद्दीयते कार्यमित्येतयोरर्थयोर्मववत्प्रत्ययः स्यात्। प्रावृषेण्यमिति। "प्रावृष एण्य"इति भवार्थे विहितः, स इहाप्यतिदिश्यत इति भावः। शारदमिति। "सन्दिवेलाद्यृतुनक्षत्रेभ्योण्"। कालाधिकारस्य पूर्णोऽवधिः।