पूर्वम्: ५।१।९५
अनन्तरम्: ५।१।९७
 
सूत्रम्
व्युष्टादिभ्योऽण्॥ ५।१।९६
काशिका-वृत्तिः
व्युष्टाऽदिभ्यो ऽण् ५।१।९७

तत्र इति सप्तमीसमर्थेभ्यः व्युष्टादिभ्यः दीयते, कार्यम् इत्येतयोरण् प्रत्ययो भवति। व्युष्टे दीयते कार्यम् वा वैयुष्टम्। नैत्यम्। अण्प्रकरणे ऽग्निपदादिभ्य उपसङ्ख्यानम्। आग्निपदम्। पैलुमूलम्। किं वक्तव्यम्? न वक्तव्यम्। अत्र एव ते पठितव्याः। व्युष्ट। नित्य। निष्क्रमण। प्रवेशन। तीर्थ। सम्भ्रम। आस्तरण। सङ्ग्राम। सङ्घात। अग्निपद। पीलुमूल। प्रवास। उपसङ्क्रमण। व्युष्टादिः।
न्यासः
व्युष्टादिभ्योऽण्?। , ५।१।९६

व्युष्टशब्दोऽयं कालशब्दः। तत्साहचर्यान्नित्यशब्दोऽपि कालशब्द एव गृह्रते। नाकाशादिवचनः। तेन तत्र सप्तम्यपवादः "कालध्वनोरत्यन्तसंयोगे" २।३।५ इति द्वितीया भवति। तेन सप्तम्यधिकारेऽपि नित्यशब्दाद्()द्वितीयासमर्थादेव प्रत्ययः। नित्यं दीयते "नैत्यम्()"। सर्वकाले दीयते इत्यर्थः। "अण्प्रकरणे" इत्यादि। पदेतत्? कात्यायनेनोक्तम्? "अण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम्()" (वा।५३२) इत्येतन्न वक्तव्यम्() कथं तह्र्रण्? स्यात्()? व्युष्टादिष्वेवाग्निपदादयः पठितव्या। अथाण्ग्रहणं किमर्थम्(), यावता भववत्()" ५।१।९५ इत्येतदिहानुवत्र्तते, तेनैवात्राणपि भविष्यति? नैवं शक्यम्(); एवं हि सति व्युष्टनित्यशब्दाभ्यां "कालाट्ठञ्()" (४।३।११) इति ठञ्? स्यात्(); नैष दोषः; तत्र पुनरारम्भसामथ्र्याद्यष्ठञा बाधितः स एव भविष्यति। कः पुनरसौ? अणेव। एवमपि तीर्थशब्दात्? द्व्यजृद्ब्राआहृणादि४।३।७२सूत्रेण ठग्विहित इति ततष्ठगेव स्यात्()। ये चात्र प्रवेशनादयोऽन्तोदात्ताः; तेभ्यष्ठञ्? स्यात्? "ब्राह्वचोऽन्तोदात्ताट्ठञ्()४।३।९७इति; तेभ्यो भवार्थे ठञो विहितत्वात्()। तस्मादण्ग्रहणं कत्र्तव्यम्()॥
बाल-मनोरमा
व्युष्टादिभ्योऽण् १७३८, ५।१।९६

अथ ठञ्विधिर्निरूप्यते--व्युष्टादिभ्योऽण्। "तत्र च दीयते कार्य"मित्यनुवर्तते। दीयते कार्यं वेत्यर्थे सप्तम्यन्तेभ्यो व्युष्टादिभ्योऽण्स्याट्ठञोऽपवादः। व्युष्टं--प्रभातम्। वैयुष्टमिति। अणि "न य्वाभ्या"मित्यैच्।

तत्त्व-बोधिनी
व्युष्टादिभ्यो ऽण् १३४१, ५।१।९६

व्युष्टादिभ्योऽण्। व्युष्टशब्दः कालवाची दिवसमुके वर्तते।