पूर्वम्: ५।२।९९
अनन्तरम्: ५।२।१०१
 
सूत्रम्
प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः॥ ५।२।१००
काशिका-वृत्तिः
प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः ५।२।१०१

प्रज्ञा श्रद्धा अर्चा वृत्ति इत्येतेभ्यः णः प्रत्ययो भवति मतुबर्थे। मतुप् सर्वत्र समुच्चीयते। प्राज्ञः, प्रज्ञावान्। श्राद्धाः, स्रद्धावान्। आर्चः, अर्चावान्। वार्त्तः, वृत्तिमान्।
न्यासः
प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः। , ५।२।१००

प्रज्ञाशब्दान्मतुपि पिच्छादिपाठादिलचि च प्राप्ते, इतरेभ्यस्तु मतुपि णो विधीयते॥
बाल-मनोरमा
प्रज्ञाश्रद्धाऽर्चाभ्यो णः १८८३, ५।२।१००

प्रज्ञाश्रद्धार्चाभ्योणः। प्रज्ञा, श्रद्धा, अर्चा एभ्यो मत्वर्थे णप्रत्ययः स्यादित्यर्थः। प्राज्ञो व्याकरणमिति। प्रज्ञानं प्रज्ञा। स्त्रियामित्यधिकारे प्रपूर्वकाज्ज्ञाधातोः "आतश्चोपसर्गे" इति भावे अङ्। प्रज्ञा अस्यास्तीति विग्रहः। उपसर्जनभूतामपि प्रज्ञानतन्निषेधात्। अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्र प्रपञ्चितम्। नच प्रजानातीति प्रज्ञः। "इगुपधे"ति कः। प्रज्ञशब्दात्स्वार्थे अणि प्राज्ञ इति सिध्यतीति शङ्क्यं, तथा सति स्त्रिया ङीप्प्रसङ्गात्। तदाह--प्राज्ञेति। श्राद्ध इति। श्रद्धा अस्यास्तीति विग्रहः। आर्च इति। अर्चा अस्यास्तीति विग्रहः।

वृत्तेश्चेति। वार्तिकमिदम्। "मत्वर्थे णप्रत्यय" इति शेषः। वात्र्त इति। वृत्तिरस्यास्तीति विग्रहः।