पूर्वम्: ५।२।१००
अनन्तरम्: ५।२।१०२
 
सूत्रम्
तपःसहस्राभ्यां विनीनी॥ ५।२।१०१
काशिका-वृत्तिः
तपःसहस्राभ्यां विनीनी ५।२।१०२

तपःसहस्रशब्दाभ्यां विनि इनि इत्येतौ प्रत्ययौ भवतः मत्वर्थे। प्रत्ययार्थयोस् तु यथासङ्ख्यं सर्वत्र एव अस्मिन् प्रकरणे निस्यते। तपो ऽस्य अस्मिन् वा विद्यते तपस्वी। सहस्री। असन्तत्वाददन्तत्वाच् च सिद्धे प्रत्यये पुनर् वचनम् अणा वक्ष्यमाणेन बाधा मा भूतिति। सहस्रात् तु ठनपि बाध्यते।
न्यासः
तपः सहरुआआभ्यां विनीनी। , ५।२।१०१

अत्र सूत्रे द्वे प्रकृती उपात्ते, प्रत्ययार्थावपि द्वावेव प्रकृतावनुवत्र्तेते। तथा च "वत्सांसाभ्यां कामबले" ५।२।९७ "सिकताशर्कराब्याञ्च" ५।२।१०३ इत्येवमादिष्वपि केषुचिद्योगेषु यथासंख्येन भवितव्यमिति यो मन्यते, तं प्रत्याह--"प्रत्ययार्थयोस्तु" इति। कस्मात्? पुनरिष्यमाणमपि न भवति? "वत्सांसाभ्यां कामबले" ५।२।९७ इत्यत्रांशशब्दस्य परनिपाताल्लक्षमव्यभिचारचिह्यात्()। अंसशब्दस्य हि "अजाद्यदन्तम्()" २।२।३३ इति पूर्वनिपाते बलशब्दस्यापि "लध्वक्षरं पूर्वं निपतति" (वा। १०८) इत्यस्मिन्? प्राप्ते योऽयं परनिपातः स लक्षणान्तरनिरपेक्षतां दर्शयन्निह मतुप्प्रकारणे यथासंख्यं लक्षणस्य व्यभिचारयति। तेन प्रत्ययर्थयोः सर्वत्र मतुप्प्रकरणे यथासंख्यं न भवति। प्रकरण इत्येतत्? कुतः? प्रकरणापेक्षत्वाल्लक्षणव्यभिचारचिह्नस्य। एतदपि कुतः? व्याख्यानात्()। द्वयोर्लक्षणव्यभिचारचिह्नयोरुपादानाद्वा योगापेक्षतायां त्वन्यतरस्यैवोपादानं कुर्यात्()। "असन्तत्वात्()" इति। तपःशब्दादसन्तत्वात्? "अस्मायामेषारुआजो विनिः" ५।२।१२० इत्येवमादिना विनिप्रत्यये सिद्धे सहरुआशब्दाच्चाकारान्तत्वात् "अकत इनिठनौ" ५।२।११४ इतीनिप्रत्यये सिद्धे, पुनरिवं विधानं वक्ष्यमाणेनाणा बाधा मा भूदित्येवमर्थम्()। "सहरुआआत्तु" इत्यादि। "अत इनिठनौ" ५।२।११४ इति ठन्नपि प्राप्नोति, सोऽपि बाध्यते। एतन सहरुआशब्दात्? ठनो बाधानमिति पुनर्वचनमिति दर्शयति॥
बाल-मनोरमा
तपः सहरुआआभ्यां विनीनी १८८४, ५।२।१०१

तपः सहरुआआभ्यां। विनिश्च इनिश्चेति द्वन्द्वः। "मत्वर्थे" इति शेषः। यथासंख्यमन्वयः। विनिप्रत्यये इनि प्रत्यये च नकारादिकारौ उच्चारणार्थौ। ननु नकारयोरित्संज्ञा कुतो न स्यात्। नच प्रयोजनाऽभावः, नित्स्वरस्यैव फलत्वादित्यत आह--नकारपरित्राणार्थ इति। तथा च उपदेशे अन्त्यत्वाऽभावान्नेत्संज्ञेचि भावः। यद्यपि "अस्मायामेधे"त्यसन्तत्वादेव तपःशब्दाद्विन्सिद्धः, सहरुआशब्दात्तु "अत इनिठनौ" इत्येवेन्सिद्धस्ततथापि विशिष्य उत्तरसूत्रविहितेन अणा असन्ताऽदन्तलक्षणयोर्विनीन्योः सामान्यलिगितयोर्बाधो मा भूदिति विशिष्येह तपःसहरुआशब्दाभ्यां तयोर्विधानम्। सहरुआशब्दात्तु अदन्तलक्षणठनोऽपि बाधनार्थमिह इन्विधानम्। एतत्समाधानं क्वचिन्मूलपुस्तकेषु दृश्यते।

तत्त्व-बोधिनी
तपःसहरुआआभ्यां विनीनी १४४८, ५।२।१०१

तपस्वी। सहरुआईति। "असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति। सहरुआआत्तु ठनोऽपि बादनार्थम्"। एतच्च समाधानं मूलपुस्तकेष्वपि क्वचिद्दृश्यते।