पूर्वम्: ५।२।११२
अनन्तरम्: ५।२।११४
 
सूत्रम्
ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्- मलिनमलीमसाः॥ ५।२।११३
काशिका-वृत्तिः
ज्योत्स्नातमिस्राशृङ्गिणौउर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः ५।२।११४

ज्योत्स्नादयः शब्दाः निपात्यन्ते मत्वर्थे संज्ञायां विषये। ज्योतिष उपधालोपो नश्च प्रत्ययो निपात्यते ज्योत्स्ना चन्द्रप्रभा। तमस उपधाया इकारो रश्च तमिस्रा रात्रिः। स्त्रीत्वमतन्त्रम् अन्यत्र अपि दृश्यते तमिस्रं नभः। शृङ्गादिनच् प्रत्ययो निपात्यते शृङ्गिणः। ऊर्जो ऽसुगागमो निपात्यते विनिवलचौ प्रत्ययौ ऊर्जस्वी, ऊर्जस्वलः। गोर्मिनि प्रत्ययो निपात्यते गोमी। मलशब्दादिनजीमसचौ प्रत्ययौ निपात्येते मलिनः, मलीमसः।
न्यासः
ज्योत्स्नातमिरुआआशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः। , ५।२।११३

"स्त्रीत्वमतन्त्रम्()" इति। अप्रधानम्(), अविवक्षितत्वात्? स्त्रीलिङ्गनिर्देशस्तु वैचित्र्यार्थः॥
बाल-मनोरमा
ज्योत्स्नातमिरुआआश्रृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः १८९५, ५।२।११३

ज्योत्स्ना। ज्योतिष इति। ज्योत्स्नावयवाः=ज्योतीषि, तान्यस्यां सन्तीति विग्रहे ज्योतिष्शब्दान्नप्रत्ययः, उपधाभूतस्य इकारस्य लोपश्च निपात्यते। सति च इकारस्य लोपे इणः परत्वाऽभावात्षत्वनिवृत्तौ ज्योत्स्नेति रूपम्। "चन्द्रिका कौमुदी ज्योत्स्ने"त्यमरः। तमस इति। तमोऽस्यास्तीति विग्रहे तमस्मशब्दात् रक्प्रत्ययाः। उपधाभूतस्य मकारादकारस्य इत्वं च निपात्यत इत्यर्थः। "तमिरुआआ तामसी रात्रि"रित्यमरः। ननु "तमिरुओ"ति स्त्रीलिङ्गनिसर्देशात्तमिरुआं गृहमिति कथमित्यत आह--स्त्रीत्वमतन्त्रमिति। श्रृङ्गादिनजिति। "निपात्यते" इति शेषः। श्रृङ्गिण इति। श्रृङ्गमस्यास्तीति विग्रहः। इनचि णत्वम्। ऊर्जसो वलजिति। "निपात्यते" इति शेषः। ऊर्जसित्यसुन्नन्तं प्रातिपदिकम्। ननु "अस्मायामेधे"ति लिनिना सिद्धेरूर्जस्विन्निति भूदित्येतदर्थं विनो निपातनमित्यर्थः। ऊर्ज इति। ऊर्जशब्दाद्वलचि प्रकृतेरसुगागम इति वृत्तिग्रन्थोऽनुपपन्न इत्यर्थः। कुत इत्यत आह--ऊर्जस्वतीरितिवदिति। ऊर्जस्वतीरित्यत्र बलप्रत्ययाऽभावेन तत्सन्नियोगशिष्टस्य असुगागमस्याऽप्रसक्तेस्तत्र ऊर्जसित्यसुन्नन्तं प्रातिपदिकमवयश्यमभ्युपेयम्। तेनैव ऊर्जस्विन्नूर्जस्वलयोर्विनिवलज्मात्रनिपातनोपपत्तेरित्यर्थः। ईमसच्चेति। मलशब्दान्निपात्यत इति शेषः।

तत्त्व-बोधिनी
ज्योत्स्नातमिरुआआश्रृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः १४५७, ५।२।११३

ज्योत्स्ना=चन्द्रप्रभा। तत्रावयवीभूतं ज्योतिरस्तीति मत्वर्थीयोपपत्तिः। एतेन तमःसमूहे तमिरुआआशब्दो व्याख्यातः। निघन्टुषु तमःपर्यायस्तमिरुआशब्दः पठितः। तत्र समूहसमूहिनोरभेदोपचार इति हरदत्तः। स्त्रीत्वमतन्त्रमिति। व्याख्यानमत्र शरणम्। "ऊर्जस्विन्गोमिन्नि"त्यत्र नान्तत्वाभिव्यक्तये नलोपो न कृतः।