पूर्वम्: ५।२।११६
अनन्तरम्: ५।२।११८
 
सूत्रम्
एकगोपूर्वाट्ठञ् नित्यम्॥ ५।२।११७
काशिका-वृत्तिः
एकगोपूर्वाट् ठञ् नित्यम् ५।२।११८

एकपूर्वाद् गोपूर्वाच् च प्रातिपदिकान् नित्यं ठञ् प्रत्ययो भवति मत्वर्थे। एकशतम् अस्य अस्ति इति ऐकशतिकः। ऐकसहस्रिकः। गोपूर्वात् च गौशतिकः। गौसहस्रिकः। अत इत्येव एकविंशतिरस्य अस्ति इति न भवति। कथम् ऐकगविकः? समासान्ते कृते भविष्यति। कथं गौशकटिकः? शकटीशब्देन समानार्थः शकटशब्दो ऽस्ति, ततो भविष्यति। अवश्यं च अतः इत्यनुवर्त्यम्, द्वन्द्वोपतापगर्ह्यातित्येवम् आद्यर्थम्। नित्यग्रहणं मतुपो बाधनार्थम्। कथम् एकद्रव्यवत्त्वातिति? नैवायं साधुः। एकेन वा द्रव्यवत्त्वादिति समर्थनीयम्।
न्यासः
एकगोपूर्वाट्ठञ्? नित्यम्?। , ५।२।११७

मतुबादिषु प्राप्तेषु ठञ्विधीयते। स च समानाधिकरणतत्पुरुषादेकपूर्वाद्भवति, न तु सर्वत एकपूर्वात्()। एतच्चेतिकरणातुवृत्तेर्लभ्यते। एकञ्च तच्छतं चैकशतम्(), तदस्यास्तीति ऐकशतिकः। षष्ठीतत्पुरुषे--एकशतवान्()। "कथम्()" इत्यादि। यदि "अतः" ५।२।११४ इत्येतदनुवत्र्तते, गोशकटीशब्दान्न सिध्यति, तस्यानकारान्तत्वादिति भावः। "ततो भविष्यति" इति। तदन्ताद्भविष्यतीत्यभिप्रायः। एषोऽर्थः--एकगोपूर्वाददन्तात्()। प्रातिपदिकाट्ठञ्? विधीयत इति सामथ्र्याल्लभ्यते। अथ वा--ततो हेतोर्भविष्यतीत्यदोषः। "अवश्यं च" इत्यादिः असत्यां ह्रत इत्यनुवृत्तौ द्वन्द्वोपतापगह्र्रादिषु (५।२।१२८; ५।२।११५) योगेषु चित्रकललाटिकादिशब्देभ्योऽपि प्रत्ययः स्यात्()। "नित्यग्रहणम्()" इत्यादि। असति हि नित्यगरहणेऽन्यतरस्यांग्रहणं मतुप्समुच्चयार्थं सर्वत्रानुवत्र्तत इति मतुबति स्यात्()। तस्मादबाधनार्थं नित्यग्रहणम्()। "कथमेकद्रव्यवत्त्वात्()" इति। यदि नित्यग्रहणं मतुब्बाधनार्थम्(), एवम्(), न ह्रेक द्रव्यवत्त्वादित्यत्रैकपूर्वाद्द्रव्यशब्दान्मतुप्? सिध्यतीति मन्यते। "एकेन" इत्यादि। एकशब्दस्य द्रव्यवत्त्वादित्यनेन "सुप्सुपा" २।१।४ इति समासं कृत्वा साधुत्वमस्य प्रतिपादनीयमित्यर्थः॥
बाल-मनोरमा
एकगोपूर्वाट्ठञ् नित्यम् १८९९, ५।२।११७

एकगोपूर्वाठ्ठञ्नित्यम्। एकपूर्वाद्गोपूर्वाच्च नित्यं ठञ्स्यादित्यर्थः। यद्यपि नित्यग्रहणाऽभावेऽपि ठञा इनिठनोर्निर्वृत्तिः सिध्यति, तथापि समुच्चयार्थकाऽन्यतरस्याङ्ग्रहणानुत्त्या मतुप्समुच्चीयेत, तन्निवत्त्यर्थं नित्यग्रहणम्। ऐकशतिक इति। "पूर्वकाल" इति समासः। "सङ्ख्यायाः संवत्सर" इत्युत्तरपदवृद्धिस्तु न, तत्र प्रतिपदोक्ततद्धितार्थसमासस्यैव ग्रहणात्।

तत्त्व-बोधिनी
एकगोपूर्वाट्ठञ् नित्यम् १४६०, ५।२।११७

एकगोपूर्वात्। ऐकशतिक इति। एकं च तच्छतं चेति "पूर्वकाले"त्यादिना कर्मधारयः। षष्ठीतत्पुरुषाद्बहुव्रीहेद्र्वन्द्वाच्च न भवति, अनभिधानादिति हरदत्तादयः। "अत"इत्येव। नेह---एकविंशतिरस्यास्तीति। नित्यग्रहणं मतुपो बाधनार्थम्। अन्यता ठञा इनिठनोर्बाधे कृतेऽप्यन्यतरस्याङ्ग्रहणानुवृत्त्या मतुप् स्यादेवेत्याहुः। कथं "एकद्रव्यवानिति()। असाधुरेवायम्। एकेन द्रव्यवानिति वा विग्रहीतव्यम्। कथमेकदण्डीति()। "एकदेशिनैकाधिकरणे"इति निर्देशो ज्ञापयति----"इनरपि क्वचिद्भवती"ति।