पूर्वम्: ५।२।१२०
अनन्तरम्: ५।२।१२२
 
सूत्रम्
बहुलं छन्दसि॥ ५।२।१२१
काशिका-वृत्तिः
बहुलं छन्दसि ५।२।१२२

छन्दसि विषये बहुलं विनिः प्रत्ययो भवति मत्वर्थे। अग्ने तेजस्विन्। न भवति। सूर्यो वर्चस्वान्। छन्दसि विनिप्रकरणे ऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घत्वं वेति वक्तव्यम्। अष्ट्रावी। मेखलावी। द्वयावी। उभयावी। रुजावी। हृदयावी। द्वयोभयगृदयानि दीर्घत्वं प्रयोजयन्ति। मर्मणश्च इति वक्तव्यम्। मर्मावी। सर्वत्रामयस्य उपसङ्ख्यानम्। छन्दसि भाषायां च। आमयावी। शृङ्गवृन्दाभ्यामारकन् वक्तव्यः। शृङ्गारकः। वृन्दारकः। फलबर्हाभ्यामिनच् वक्तव्यः। फलिनः। बर्हिणः। हृदयाच्चालुरन्यतरस्याम्। हृदयालुः, हृदयी, हृदयिकः, हृदयवान्। शीतोष्णतृप्रेभ्यस्तन्न सहत इत्यालुच् वक्तव्यः। शीतं न सहते शीतालुः। उष्णालुः। तृप्रालुः। तन्न सहत इति हिमाच्चेलुः। हिमं न सहते हिमेलुः। बलादूलच्। बलं न सहते बलूलः। वातात् समूहे च। वातं न सहत इति च। वातानां समूहः, वातं न सहते इति वा वातूलः। पर्वमरुद्भ्यां तन् वक्तव्यः। पर्वतः। मरुत्तः। अर्थात्तदभाव इनिर्वक्तव्यः। अर्थी। तदभावे इत्येव, अर्थवान्। तदेतत् सर्वं बहुलग्रहणेन सम्पद्यते।
न्यासः
बहुलं छन्दसि। , ५।२।१२१

"द्वयोभयह्मदयानि" इत्यादि। अवधारणमिह द्रष्टव्यम्()। द्वयादीन्येव दीर्घत्वं प्रयोजयन्ति, नेतराणि; स्वत एव दीर्घत्वात्()। "तदेतत्सर्वं बहुलग्रहणेन सम्पद्यते" इति। वक्तव्यशपब्दस्तु व्याख्याने वत्र्तते इत्यभिप्रायः