पूर्वम्: ५।२।१४
अनन्तरम्: ५।२।१६
 
सूत्रम्
अनुग्वलंगामी॥ ५।२।१५
काशिका-वृत्तिः
अनुग्वलङ्गामी ५।२।१५

गोः पश्चादनुगु। अनुगुशब्दादलङ्गामी इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। अनुगु पर्याप्तं गच्छति अनुगवीनः गोपालकः।
न्यासः
अनुग्वलङ्गामी। , ५।२।१५

बाल-मनोरमा
अनुग्वलंगामी १७९३, ५।२।१५

अनुग्वलंगामी। "अनुगु" इत्यविभक्तिको निर्देशः। गोः पश्चादिति विग्रहे पश्चादर्थे अनोरव्ययीभावे ह्यस्वत्वे अनुगुशब्दः। तस्मादलङ्गामीत्यर्थे खः स्यादित्यर्थः। अत्र "अनुगु" इत्यस्य क्रियाविशेषणत्वाद्द्वितीयैव समर्थविभक्तिरिति हरदत्तः। कृद्योगषष्ठीत्यन्ये। "अलङ्गामी"त्यत्र अलंशब्दस्य विवरणं--पर्याप्तमिति। क्रियाविशेषणम्।

तत्त्व-बोधिनी
अनुग्वलंगामी १३८३, ५।२।१५

अनुग्वलं। "ख"इत्यनुवर्तते। अनुगुशब्दात् "अलंगामी"त्यस्मिन्नर्थे खः स्यात्। गोः पश्चादिति। पश्चादर्थेऽव्ययीभावः। पर्याप्तिमिति। क्रियाविशेषणम्। अत्र हरदत्तः---अनुग्वित्यस्य क्रियाविसेषणत्वाद्द्वितीयान्तादिह प्रत्ययः। न चालङ्गामीत्यस्य "सुप्यजातौ"इति णिनिप्रत्ययान्ततया कृद्योगलक्षणा षष्ठी स्यादिति वाच्यं, क्रियाविशेषणात्तदप्रवृत्तेः, "शोभनं पाचक"इत्यादौ तथादर्शनादित्याह। अत्र केचित्---धातूपात्तव्यापारजन्यफलाश्रयत्वं यत्र तन्मुख्यं कर्म, यत्र तु व्यापारजन्यत्वमात्रं तदौपचारिकम्। ततश्च "तण्डुलाना पाचक"इत्यत्र मुख्ये कर्मणि कृद्योगलक्षणा षष्ठी भवति। "मृदु पाचकः" "शोभनं पाचक"इत्यत्र तु सा न भवति, फलव्यापारयोः क्रियाकर्मभावव्यवहारे सत्यपि फलस्योपचारिककर्मत्वात्, तद्विशेषणत्वाच्च मृद्वादेरिति तस्याशयैत्याहुः। अन्ये त्वेवं तर्हि तुल्यन्यायेन क्रियाविशेषणाद्द्वितीययाया अप्यप्रवृत्तिः स्यात्। तस्मात् "तदर्ह मिति निर्देशादनित्या कृद्योगषष्ठीति क्रियाविशेषणात्सान स्वीक्रियत इति हरदत्ताशयः कथं चिद्वर्णनीय इत्याहुः। वस्तुतस्तु पश्चादर्थेऽव्ययीभावोऽयमिति निर्बिवादम्। पश्चादिति चाऽस्तत्यर्थे निप#आतितम्। तच्च यद्यपि विभक्तित्रयसाधारणं तथापीह योग्यताबलात्सप्तम्यर्थवृत्तिः। अतस्तस्य कर्मत्वाऽयोगात्प्रथमान्तादेवेह प्रत्यय इति वक्तुमुचितम्। कृद्योगलक्षणषष्ठीशङ्काऽप्यत एव नेति बोध्यम्।