पूर्वम्: ५।२।१७
अनन्तरम्: ५।२।१९
 
सूत्रम्
गोष्ठात् खञ् भूतपूर्वे॥ ५।२।१८
काशिका-वृत्तिः
गोष्ठात् खञ् भूतपूर्वे ५।२।१८

गावस्तिष्ठन्त्यस्मिनिति गोष्ठम्। गोष्ठशब्देन सन्निहितगोसमूहो देश उच्यते। भूतपूर्वग्रहणम् तस्य एव विशेषणम्। गोष्ठशब्दाद् भूतपूर्वोपाधिकात् स्वार्थे खञ् प्रत्ययो भवति। गोष्ठो भूतपूर्वः गौष्ठीनो देशः। भूतपूर्वग्रहणं किम्? गोष्ठो वर्तते।
न्यासः
गोष्ठात्खञ्? भूतपूर्वे। , ५।२।१८

"भूतपूर्वं चरट्()" (५।३।५३) इति प्राप्ते खञ्? विधीयते। "गावस्तिष्ठन्त्यस्मिन्निति गोष्ठम्()" इति। "सुपिस्थः" ३।२।४ इति कः, "अम्बाम्बगोभूमि" ८।३।९७ इत्यादिना मूर्धन्यः। "भूतपूर्वे" इति। पूर्वं भूत इति भूतपूर्वः। "सुप्सुपा" २।१।४ इति समासः। "भूतपूर्वग्रहणं तस्यैव विशेषणम्()" इति। अर्थद्वारकं वेदितव्यम्(), यथा--"धातोः कर्मणः समान" ३।१।७ इत्यादिसूत्रे कर्मत्वम्(), समानकर्त्तृकत्वञ्च॥
बाल-मनोरमा
गोष्ठात्खञ्भूतपूर्वे १७९६, ५।२।१८

गोष्ठात्खञ्। बूतपूर्व इति प्रकृतिविशेषणम्। भूतपूर्वार्थवृत्तेर्गोष्ठशब्दात्स्वार्थे खः स्यादिति वृत्तिकृतः।

तत्त्व-बोधिनी
गोष्ठात्खञ्भूतपूर्वे १३८५, ५।२।१८

गोष्ठात्खञ्। गावस्तिष्ठन्त्यस्मिन्निति घोष्ठः। "घञर्थे कविधानं"मित्यदिकरणे कः। "अम्बाम्बोगोभूमी"ति षत्वम्। पूर्वं भूतो भूतपूर्वः। "सुप्सुपे"ति समासः।