पूर्वम्: ५।२।२५
अनन्तरम्: ५।२।२७
 
सूत्रम्
तेन वित्तश्चुञ्चुप्चणपौ॥ ५।२।२६
काशिका-वृत्तिः
तेन वित्तश् चुञ्चुप्चणपौ ५।२।२६

तेन इति तृतीयासमर्थात् वित्तः इत्येतस्मिन्नर्थे चुञ्चुप् चणपित्येतौ प्रत्ययौ भवतः। वित्तः प्रतीतः ज्ञात इत्यर्थः। विद्यया वित्तः विद्याचुञ्चुः, विद्याचणः।
न्यासः
तेन वित्तश्चुञ्चुप्चणपौ। , ५।२।२६

"विद्याचुञ्चुः, विद्याचणः" इति। अथ "चुटू" (१।३।७) इति चकारस्येत्संज्ञा कस्मान्न भवति? उक्तोऽस्य हेतुस्तत्रैव--पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थमिति॥
बाल-मनोरमा
तेन वित्तश्चुञ्चुप्चणपौ १८०४, ५।२।२६

तेन वित्तः। तृतीयान्ताद्वित्त इत्यर्थे चुञ्चुप्चणपौ भवत इत्यर्थः। वित्तः=प्रसिद्धः। चस्य नेत्संज्ञेति। उपदेशे आदित्वाऽभावादिति भावः।

तत्त्व-बोधिनी
तेन वित्तश्चुञ्चुप्चणपौ १३९३, ५।२।२६

तेन वित्तः। वित्तः=प्रतीतः। "वित्तो भोगप्रत्ययो"रिति निपातनात् "रदाभ्यां निष्ठातो नः"इति नत्वं न। लुप्तनिर्दिष्ट इति। "चुटुषाः प्रत्ययस्ये"ति वक्तव्ये पृथग्योगकरणात् "चुटू" इत्येतदनित्यमिति समाधानान्तरमप्याहुः