पूर्वम्: ५।२।२९
अनन्तरम्: ५।२।३१
 
सूत्रम्
अवात् कुटारच्च॥ ५।२।३०
काशिका-वृत्तिः
अवात् कुटारच् च ५।२।३०

अवशब्दात् कुटारच् प्रत्ययो भवति। चकारात् कटच्। अवकुटारम्, अबकटम्।
न्यासः
अवात्कुटारच्च। , ५।२।३०

बाल-मनोरमा
अवात्कुटाराच्च १८०८, ५।२।३०

अवात्कुटारच्च। क्रियाविशिष्टसाधानवाचकादवात्स्वार्थे कुटरच स्यादित्यर्थः। अवाचीन इति। अवाचीने विद्यमानादवात्कुटरचि अवकुटार इत्यर्थः।