पूर्वम्: ५।२।३०
अनन्तरम्: ५।२।३२
 
सूत्रम्
नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः॥ ५।२।३१
काशिका-वृत्तिः
नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः ५।२।३१

अवातित्येव। नमनं नतम्। नासिकायाः सम्बन्धिनि नते अभिधेये टिटच् नाटच् भ्रटचित्येते प्रत्यया भवन्ति संज्ञायां विषये। नासिकाया नतम् अवटीटम्, अवनाटम्, अवभ्रटम्। तद्योगान् नासिका ऽपि तथा उच्यते, अवटीटः, अवनाटः, अवभ्रटः इति।
न्यासः
नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः। , ५।२।३१

"नमनं नतम्()" इति। भावे निष्ठां दर्शयति। "नासिकायाः सम्बन्धिनी" इति। अनेनापि नासिकाया इत्यपि सम्बन्धलक्षमा षष्टी। यदि नासिकायाः सम्बन्धिनि नते वाच्य एते प्रत्ययाः, कथं तदेतेन नासिका पुरुषश्चाभिधीयते? इत्याह--"तद्योगात्()" इति॥
बाल-मनोरमा
नते नासिकायाः संज्ञायांटीटञ्नाटज्भ्रटचः १८०९, ५।२।३१

नते नासिकायाः। अवादित्येवेति। अवशब्दान्नासिकाया अवनतेऽर्थे टीटच्, नाटच्, भ्रटच् एते प्रत्ययाः स्युरित्यर्थः। "णमु प्रह्वत्वे" इति धातोर्भावे क्तप्रत्यये नतशब्द इत्यभिप्रेत्याह-नतं नमनमिति। प्रह्वत्वमित्यर्थः। ननु यदि नासिकाया नमनमवटीटं तर्हि अवटीटा नासिकेति कथमित्यत आह--तद्योगादिति। नमनयोगात्तत्र लाक्षणिकमिति भावः। पुरुषोऽप्यवटीट इति। तादृशनासिकायोगादिति भावः।

तत्त्व-बोधिनी
नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः १३९६, ५।२।३१

नतमिति। नपुंसके भाषे क्तः। नमनमिति। नीचैस्त्वमित्यर्थः। अकटीटमिति। नासिकासाधनके नमने वर्तमानादवशब्दात्स्वार्थे प्रत्ययः। कथं तर्हि नासिकायां पुरुषे चाऽवटीटशब्दस्य प्रयोग इत्यत आह---तद्योगादिति। नेर्बिडच्। "नते नासिकायाः संज्ञाया"मिति वर्तते।निशब्दान्नासिकाया नतेऽभिधेये बिडज्बिरीसचौ स्तः। निबिडमिति। तद्यागान्निबिडा नासिका, निबिरीसा। कथं तर्हि निबिडाः केशाः", निबिडं वस्त्र "मिति। उपमानाद्भविष्यति। एतच्च काशिकायां स्पष्टम्। केचित्तु उक्तप्योगानुरोधेनेह सूत्रे "नते नासिकायाः"इति नानुवर्तत इति व्याचक्षते। प्रकृतेरिति। निशब्दस्येत्यर्थः। आदेशौ चेति। प्रत्ययौ, तत्संनियोगेन यखासङ्ख्यमिमावादेशौ च स्त इत्यर्थः।

कप्रतययचिकादेशौ च वक्तव्यौ। चिकिनमिति। इनच्प्रत्ययसंनियोगेन चिकादेशः। चिपिटमिति। पिटच्प्रत्ययसंनियोगेन "चि" इत्यादेशः।

क्लिन्नस्य चिल्--पिल्--लश्चाऽस्य चक्षुषी। क्लिन्नस्येति। चिल् पिल् इत्येतावादेशौ भवतो, लश्च प्रत्ययः "अस्य चक्षुषी"इत्येतस्मिन्नर्थे।

चुल् च। चुल् चेति। चाल्लप्रत्ययः। चुल्ल इति। क्लिन्ने अस्म चक्षुषी इति पूर्वोक्त एव विग्रहः। कथं तर्हि "स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्ला क्लिन्नेऽक्ष्णि चाप्यमी"इत्यमर इति चेत्। अत्राहुः--पुरुषे व्युत्पादितानां तदवयवे लक्षणा बोध्येति। अन्ये त्वाहुः-----"अस्य चक्षुषी"इत्यत्र "अस्ये"ति न वक्तव्यम्। क्लिन्ने चक्षुषी--चिल्ले पिल्ले। पुरुषे तु मत्वर्थेऽच्, अर्साअदिषु "स्वाङ्गाद्धीना"दिति सूत्रितत्वादिति।