पूर्वम्: ५।२।३४
अनन्तरम्: ५।२।३६
 
सूत्रम्
कर्मणि घटोऽठच्॥ ५।२।३५
काशिका-वृत्तिः
कर्मणि घटो ऽठच् ५।२।३५

निर्देशादेव समर्थविभक्तिः। कर्मशब्दात् सप्तमीसमर्थाद् घटः इत्येतस्मिन्नर्थे अठच् प्रत्ययो भवति। ङ्हटते इति ङ्हटः। कर्मणि ङ्हटते कर्मठः पुरुषः।
न्यासः
कर्मणि घटोऽठच्?। , ५।२।३५

"कर्मणि" इत्यनेन कर्मणीति स्वरूपग्रहणं दर्शयिति। अथ पारिबाषिकस्य कर्मणो ग्रहणं कस्मान्न भवति? असम्भवात्()। असम्भवस्तु घटतेरकर्मकत्वात्()। "अठच्प्रत्ययेऽकारोच्चारणं ठस्येकादेशनिवृत्त्यर्थम्()॥
बाल-मनोरमा
कर्मणि घटोऽठच् १८१२, ५।२।३५

कर्मणि घटोऽठच्। सप्तम्यन्तात्कर्मन्शब्दाद्धट इत्यर्थे अठच्स्यादित्यर्थः। घटशब्दस्य कलशषपर्यायत्वभ्रमं वारयति--कर्मणि घटत इति। व्याप्रियत इत्यर्थः। तथाचाऽत्र घटशब्दो यौगिको घटमाने वर्तत इति भावः। कर्मठ इति। अठचि "नस्तद्धिते" इति टिलोपः। अठचि ठस्य अङ्गात्परत्वाऽभावादिकादेशाऽभाव इति भावः।

तत्त्व-बोधिनी
कर्मणि घटोऽठञ् १३९८, ५।२।३५

कर्मणि घटो। सप्तम्यन्तात्कर्मन्()शब्दात् "घटते"इत्यर्थेऽठञ् स्यात्। कर्मठ इति। "ठस्येकः"इतीह नभवति। अठचि ठस्याऽप्रत्ययत्वेनाऽङ्गसंज्ञानिमित्तत्वाऽभावात्।