पूर्वम्: ५।२।४७
अनन्तरम्: ५।२।४९
 
सूत्रम्
तस्य पूरणे डट्॥ ५।२।४८
काशिका-वृत्तिः
तस्य पूरणे डट् ५।२।४८

तस्य इति षष्ठीसमर्थात् सङ्ख्यावाचिनः प्रातिपदिकात् पूरणे इत्यस्मिन्नर्थे डट् प्रत्ययो भवति। पूर्यते ऽनेन इति पूरणम्। येन सङ्ख्या सङ्ख्यानं पूर्यते सम्पद्यते, स तस्याः पूरणः। एकादशानां पूरणः एकदशः। त्रयोदशः। यस्मिन्नुपसञ्जाते ऽन्या सङ्ख्या सम्पद्यते स प्रत्ययार्थः। इह न भवति, पञ्चानां मुष्टिकानां पूरणो घटः इति।
लघु-सिद्धान्त-कौमुदी
तस्य पूरणे डट् ११७८, ५।२।४८

एकादशानां पूरणः एकादशः॥
न्यासः
तस्य पूरणे डट्?। , ५।२।४८

इह द्वे संख्याग्रहणे अनुवत्र्तते, तत्र चैकेन "संख्यावाचिनः प्रातिपदिकात्()" इति ब्राउवता प्रकृतिर्विशेषिता। द्वितीयेन तु प्रत्ययार्थ विशेषयितुमाह--"येन" इत्यादि। संख्यानशब्दं समुच्चारयन्? संख्नावचनः संख्यानशब्देन प्रत्ययार्थो विशेष्यते इति दर्शयति। द्विविधो हि संख्याशबदः--संख्यानवचनः, संख्येयवचनश्च। तत्र यदि संख्येयवचनेन प्रत्ययार्थो विशेष्यते, तदायमर्थः स्यात्()--संख्येयं मुष्ट()आदिकं येन पूर्यते द्रव्यान्तरेणातिरिक्तं क्रियते स च पूरण इति, ततश्च पञ्चानां मुष्टिकाणां घट इत्यत्रापि स्यात्()। तस्मात्संख्यावचनेनैव प्रत्ययार्थो विशेषयित्तुं युक्तः। "सम्पद्यते" इति। पूय्र्यत इत्यस्यार्थमाचष्टे। एतेनैतद्दर्शयति--संख्यावचनेन प्रत्ययार्थो विशेष्यते। न मुष्टिकाणामिव द्रव्याणां द्रव्यान्तरेणातिरिक्तकरणं संख्यायाः पूरणम्(), किं तर्हि? सम्पत्तिरेवेति। "इह न भवति" इत्यादि। न हि घट उपजाते पञ्चत्वसंख्या मुष्टिकाणा सम्पदयते। किं तर्हि? तत्र पञ्चसंख्यकानामेव द्रव्यान्तरेणातिरिक्तता॥
बाल-मनोरमा
तस्य पूरणे डट् १८२५, ५।२।४८

तस्य पूरणे। सङ्ख्याया इत्यनुवर्तते। सङ्ख्येयार्थकसङ्ख्यावाचिनः षष्ठ()न्तात्प्रवृत्तिनिमित्तसङ्ख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः। पूर्यते अनेनेति पूरणः=अवयवः, स प्रत्ययार्थः। एकादश इति। एकादशत्वसङ्ख्यायाः पूरकोऽवयव इत्यर्थः। यस्मिन्ननुपात्ते एकादशत्वसङ्ख्या न सम्पद्यते, यस्मिन्नुपात्ते तु सा पूर्यते, सोऽवयवः। एकदेश इति यावत्। प्रवृत्तिनिमित्तेति किम्?। पञ्चाना घटानां पूरणं जलादि।