पूर्वम्: ५।२।४
अनन्तरम्: ५।२।६
 
सूत्रम्
सर्वचर्मणः कृतः खखञौ॥ ५।२।५
काशिका-वृत्तिः
सर्वचर्मणः कृतः खखञौ ५।२।५

सर्वचर्मन् शब्दात् तृतीयासमर्थात् कृतः इत्यस्मिन्नर्थे खखञौ प्रत्ययौ भवतः। सर्वशब्दश्च अत्र प्रत्ययार्थेन कृतेन सम्बध्यते, न चर्मणा। तत्र अयम् असमर्थसमासो द्रष्टव्यः। सर्वश्चर्मणा कृतः इत्येतस्मिन् वाक्यार्थे वृत्तिः। सर्वचर्मीणः, सार्वचर्मीणः।
न्यासः
सर्वचर्मणः कृतः खखञौ। , ५।२।५

इह कृतः प्रत्ययार्थः। तत्र चर्मणः करणत्वं स्यात्(), कर्तृत्वं वा। तत्र यदि करणत्वं तदा नियतं करणलक्षणया तृतीयया भवितव्यम्()। अथ कर्त्तृत्वमेव "न लोक" २।३।६९ इत्यादिना षष्ठ()आं प्रतिषिद्धायां कर्त्तृलक्षणा तृतीयैव। तस्मात्? प्रत्ययार्थसामथ्र्यालभ्या तृतीया समर्थविभक्तिरिति मत्वाऽ‌ऽह--"तृतीयासमर्थात्()" इति। स च सर्वचर्मण इति निर्देशः सर्वशब्दस्य चर्मशब्देन समासं कृत्वा कृतः। ततः "चर्मणैवास्य सम्बन्धो न हयन्यता समास उपपद्यते" इति यो मन्यते, तं प्रत्याह--"सर्वशब्दश्चात्र" इत्यादि। यद्येवम्(), असामथ्र्यात्? समासो न प्राप्नोति? इत्यत आह--"तत्रायम्()" इत्यादि। अस्मादेव निपातनादित्यभिप्रायः। अथ चर्मणैवभिसम्बन्धः कस्मान्न विज्ञायते? इत्याह--"सर्वश्चर्मणा कृतः" इति। अत्र हि वाक्यार्थे तद्धितवृत्तिरिष्यति। तथा ह्रयमेव वाक्यार्थस्तद्धितानुगतः प्रतीयते। अ()स्मश्चार्थे वाक्यार्थ एवं तद्धितवृत्तिर्लभ्यते, यदि सर्वशब्दः कृतेन सम्बध्यते न चर्मणा। यदि सर्वशब्दश्चर्मणा सम्बध्यते, सर्वचर्मणा इति षष्ठीसमासो वा स्यात्(), कर्मधारयो वा; तत्र षष्ठीसमासे तद्धितान्तात्? सर्वसम्बन्धिना चर्मणा कृत इत्येषोऽर्थः प्रतीयते। कर्मधारये तु सर्वचर्मणा कृत इत्येषोऽर्थः। न चायं द्विष्प्रकारो यस्तद्धितान्तादवसीयते, अपि तु सर्वचर्मणा कृत इत्ययमेव। तस्मादशक्यः सर्वशब्दस्य चर्मणा सम्बन्धो विज्ञातुमिति कृतेनैव सम्बन्धो युक्तः॥
बाल-मनोरमा
सर्वचर्मणः कृतः खखञौ १७८३, ५।२।५

सर्वचर्मणः। सर्वचर्मन्शब्दात्तृतीयान्ताच्चर्मणा सर्वं कृतमित्यर्थः खखञौ स्त इत्यर्थः। औचित्यादिह तृतीया समर्थविभक्तिः। नन्विह सर्वशब्दस्य कृते अन्वयाच्चर्मण्यन्वयाऽभावादसामर्थ्यांच्चर्मणा समासाऽसम्भवात्कथं सर्वचर्मन्शब्दात्प्रत्यय इत्यत आह--असामर्थ्येऽपीति। सर्वश्चर्मणा कृत इति विग्रहवाक्यम्। चर्मणा कृत्स्नः कृत इत्यर्थः। सर्वचर्मीण इति। "नस्तद्धिते" इति टिलोपः। सर्वेण चर्मणा कृत इत्यर्थे तु न खखञौ, व्याख्यानात्।

तत्त्व-बोधिनी
सर्वचर्मणः कृतः खखञौ १३७४, ५।२।५

सर्वचर्मणः। "खश्चे"त्येव तु नोक्तं, यतोऽप्यनुकर्षः संभाव्येतेति। अत्र तृतीया समर्थविभक्तिः, कृत इति प्रत्ययार्थे चर्मणः करणत्वस्योचितत्वात्। सर्वश्चर्मणेति। सर्वेण चर्मणा कृत इत्यर्थे तद्धितो नेष्यत इति भावः।