पूर्वम्: ५।२।५२
अनन्तरम्: ५।२।५४
 
सूत्रम्
द्वेस्तीयः॥ ५।२।५३
काशिका-वृत्तिः
द्वेस् तीयः ५।२।५४

द्विशब्दात् तीयः प्रत्ययो भवति तस्य पूरणे इत्यस्मिन् विषये। डटो ऽपवादः। द्व्योः पूरणः द्वितीयः।
लघु-सिद्धान्त-कौमुदी
द्वेस्तीयः ११८२, ५।२।५३

डटोऽपवादः। द्वयोः पूरणो द्वितीयः॥
न्यासः
द्वेस्तीयः। , ५।२।५३

"द्विशब्दात्? तीयप्रत्ययो भवति" इति। अथ द्विशब्दादुत्तरस्य डटस्तीयादेशः कस्मादेव न भवति? ज्ञापकत्वात्()। यदयम्? "कर्मणि द्वितीया" २।३।२ इति टापा निर्देशं करोति, तज्ज्ञापयति--नायमादेश इति। यद्येवमनेनैव सिद्धत्वात्? प्रत्ययविधानमनर्थकम्()? न; स्वरार्थत्वात्()। निपातनाद्धि प्रातिपदिकस्वरेणान्तोदात्तः स्यात्()। तीयप्रत्यये तु प्रत्ययस्वरेण मध्योदात्तो भवति। किञ्च, यदि प्रत्ययो न विधीयते "बाधकान्यपि निपातनानि भवन्ति" (नी।प।बृ। १०९) इति डडपि स्यात्()। यदि पुनरयं डडादेशः स्यात्(), तर्हि किं स्यात्()? डट्स्वरेण तीयशब्दोऽन्तोदात्तः स्यात्(), स्त्रियां च टित्त्वान्डीप्(), ततश्च द्वितीयेति निर्देशो नोपपद्यते॥
बाल-मनोरमा
द्वेस्तीयः १८३०, ५।२।५३

द्वेस्तीयः। द्विसब्दात्षष्ठ()न्तात्पूरणे तीयप्रत्ययः स्यादित्यर्थः।

तत्त्व-बोधिनी
द्वेस्तीयः १४१२, ५।२।५३

द्वेस्तीयः। डटोऽपवाद इति। डट आदेशस्तु न भवति, टिति "टिड्ढे"ति ङीपः प्रसक्त्या "द्वितीयाश्रिते"ति निर्देशानुपपत्तेः।अतएव निर्देशाद्द्विशब्दस्याप्यादेशो न भवति।