पूर्वम्: ५।२।८२
अनन्तरम्: ५।२।८४
 
सूत्रम्
श्रोत्रियंश्छन्दोऽधीते॥ ५।२।८३
काशिका-वृत्तिः
श्रोत्रियं श्छन्दो ऽधीते ५।२।८४

श्रोत्रियनिति निपात्यते छन्दो ऽधीते इत्येतस्मिन्नर्थे। नकारः स्वरार्थः। श्रोत्रियो ब्राह्मणः। श्रोत्रियंश् छन्दो ऽधीते इति वाक्यार्थे पदवचनम्, छन्दसो वा श्रोत्रभावः, तदधीते इति घन् च प्रत्ययः। कथं छन्दो ऽधीते छन्दसः? बाग्रहणम् अनुवर्तते तावतिथं ग्रहणम् इति लुग् वा ५।२।७६ इत्यतः।
लघु-सिद्धान्त-कौमुदी
श्रोत्रियंश्छन्दोऽधीते ११८४, ५।२।८३

श्रोत्रियः। वेत्यनुवृत्तेश्छान्दसः॥
न्यासः
श्रोत्रियँश्छन्दोऽधीते। , ५।२।८३

"नकारः स्वरार्थः" इति। ननु च नकार इद् यस्य तर्स्मिन्निति परतः स्वर उच्यते, न च समुदायानुबन्धे नकारे नित्परत्वमस्ति? नैष दोषः; न एवेत् नित्, तत्पुरुषोऽयम्। तेन नकार इत्संज्ञे परतः पूर्वस्य स्वरो भविष्यति। किं पुनरत्र निपात्यते? इत्याह--"छन्दोऽधीते" इति। अस्य वाक्यस्यार्थे श्रोतिं()रयन्निति निपात्यते। "छन्दसो वा" इत्यादि। पूर्वत्र वाक्यार्थे पदमविद्यमानप्रकृतिप्रत्ययविभागं निपातितम्; इदानीं तु प्रकृतिप्रत्ययौ निपात्येते तदवीत इत्यस्मिन्नर्थे। अत्र यद्यपि निदित बहुव्रीहिः, तथापि स्वरः सिध्यत्येव; घन्प्रत्ययस्य नितः परस्य विद्यमानत्वात्। "कथम्()" इत्यादि। यदि च्छब्दःशब्दस्य श्रोत्रशब्द आदेशो घंश्च प्रत्ययः "तदधीते" इत्यस्मिन्नर्थे निपात्यते, निपातनेन बाधितत्वादत्रार्थे च्छान्दस इति न सिष्यतीत्यभिप्रायः॥
बाल-मनोरमा
श्रोत्रियंश्छन्दोऽधीते १८५९, ५।२।८३

श्रोत्रियंश्छन्दोऽधीते। द्वितीयान्ताच्छन्दश्शब्दादधीते इत्यर्थे घन्, प्रकृतेः श्रोत्रादेशश्च निपात्यते। अध्येत्रणोऽपवादः। वेत्यवृत्तेरिति। "तावतिथ"मिति सूत्रान्मण्डूकप्लुत्ये"ति शेषः। ततश्च घनभावे अद्येत्रणिति भावः। वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम्।

तत्त्व-बोधिनी
श्रोत्रियंश्छन्दोऽधीते १४३०, ५।२।८३

श्रोत्रियन्। यश्छन्दोऽधीते सः श्रोत्रियो भवति। अत्र भाष्ये "छन्दोऽधीते इत्यस्य वाक्यस्यार्थे श्रोत्रियन्नित्येतत्पदं निपात्यते"इति वाक्यार्थे पदवचनपक्षः। "छन्दसो वा श्रोत्रभावो निपात्यते, तदधीत इत्येतस्मिन्नर्थे, घश्च प्रत्ययः"इति पक्षान्तरं च स्थितम्। व्याख्यातं च कैयटेन "वाक्यार्थस्य =संबन्धरूपस्य क्रियारूपस्य वाऽसत्त्वरूपत्वात्,श्रोत्रियशब्दस्य च सत्त्वरूपार्थाभिधायित्वाद्वाक्यार्थग्रहणेन तदाश्रयश्छन्दोऽध्ययी अभिधीयत इति। "एकां शाखामधीत्य श्रोत्रियो भवती"ति धर्मशास्त्रम्। वेत्यनुवृत्तेरिति। "तावतिथं ग्रहणमिति लुग्वे"त्यतः।