पूर्वम्: ५।२।८३
अनन्तरम्: ५।२।८५
 
सूत्रम्
श्राद्धमनेन भुक्तमिनिठनौ॥ ५।२।८४
काशिका-वृत्तिः
श्राद्धम् अनेनन् भुक्तम् इनिठनौ ५।२।८५

श्राद्धम् इति प्रकृतिः। अनेन इति प्रत्ययार्थः। भुक्तम् इति प्रकृतिविशेषणम्। श्राद्धशब्दाद् भुक्तोपाधिकादनेन इत्यस्मिन्नर्थे इनिठनौ प्रत्ययौ भवतः। श्राद्धशब्दः कर्मनामधेयम् तत् साधनद्रव्ये वर्तित्वा प्रत्ययम् उत्पादयति। श्राद्धं भुक्तम् अनेन श्राद्धी, श्राद्धिकः। इनिठनोः समानकालग्रहणं कर्तव्यम्, अद्य भुक्ते श्राद्धे श्वः श्राद्धिकः इति मा भूत्।
न्यासः
श्राद्धमनेन भुक्तमिनिठनौ। , ५।२।८४

"श्राद्धशब्द" इत्यादि। शास्त्रोक्तेन विधिना निष्पाद्यस्य कस्यचिवेव क्रियाविशेषस्य श्राद्धशब्दः संज्ञा। कर्मशब्दोऽयं क्रियावाची। श्रद्धा यत्र कर्मष्यस्ति तच्छ्राद्धम्(), "प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः" ५।२।१०० इति णप्रत्ययः। "तत्साधने" इत्यादि। भूक्तत्वं कर्मणो विशेषणं न सम्भवतीति तत्साधने भवतादौ वर्त्तित्वा श्राद्धं प्रतययमुत्यादयतीति विज्ञायते। तत्साधाने तु तस्य वृत्तिः, तादथ्र्यात्(); यथा--प्रदीपार्थायां मल्लिकायां प्रदीयपशब्दस्य। "समानकालग्रहणम्()" इति। समानः कालो गृह्रते येन तत्समानकालग्रहणम्()। व्याख्यानं कत्र्तव्यमित्यर्थः। किमर्थम्()? इत्याह--"अद्य भुक्ते" इत्यादि। यस्मिन्नहनि श्राद्धमनेन भुक्तं तस्मिन्नेव श्राद्धिक इति स्यात्()ष अद्य भक्ते ()आओ मा भूदित्येवमर्थम्()। तत्रेदं व्याख्यानम्()--इहापि वेत्यनुवत्र्तते, सा च व्यवस्थितविभाषा, तेन यस्मिन्नेवाहनि श्राद्धं भुक्तं तस्मिन्नेवेष्यते; नान्यत्रेति॥
बाल-मनोरमा
श्राद्धमनेन भुक्तमिनिठनौ १८६०, ५।२।८४

श्राद्धमनेन। प्रथमान्ताच्छ्राद्धशब्दाद्भुक्तमनेनेत्यर्थे इनिठनौ [एतौ] स्त इत्यर्थः। श्राद्धसाधनद्रव्ये श्राद्धशब्दो लाक्षणिकः। इनिप्रत्यये नकारादिकार उच्चारणार्थः।

तत्त्व-बोधिनी
श्राद्धमनेन भुक्तमिनिठनौ १४३१, ५।२।८४

श्राद्धमनेन। श्रद्धाऽस्मिन्नस्तीति श्राद्धम्। "प्रज्ञाश्रद्धाऽर्चाभ्यो णः"। यद्यपि पित्र्यं कर्मश्राद्धशब्देनोच्यते, तथापीह तत्साधनद्रव्यमुच्यते, मुख्यश्राद्धस्य भोक्तुमशक्यत्वात्। श्राद्धे। श्राद्धिक इति। अद्यतन एवेष्यते, अद्य भुक्ते ()आः श्राद्धिक इति मा भूत्।