पूर्वम्: ५।२।८४
अनन्तरम्: ५।२।८६
 
सूत्रम्
पूर्वादिनिः॥ ५।२।८५
काशिका-वृत्तिः
पूर्वादिनिः ५।२।८६

अनेन इति प्रत्ययार्थः कर्ता ऽनुवर्तते। न च क्रियाम् अन्तरेण कर्ता सम्भवति इति यां काञ्चित् क्रियामध्याहृत्य प्रत्ययो विधेयः। पूर्वातनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति। पूर्वं गतम् अनेन पीतम् भुक्तं वा पूर्वी, पूर्विणौ, पूर्विणः।
लघु-सिद्धान्त-कौमुदी
पूर्वादिनिः ११८५, ५।२।८५

पूर्वं कृतमनेन पूर्वी॥
न्यासः
पूर्वादिनिः। , ५।२।८५

"पूर्व गतं पीतं भूक्तम्()" इति। पूर्वशब्दोऽत्र क्रियाविशेषणत्वात्? कर्म भवतीति द्वितीयासमर्थात्? प्रत्ययो विज्ञायते। "पूर्वो" इति। "सौ च" ६।४।१३ इति दीर्घः॥
बाल-मनोरमा
पूर्वादिनिः १८६१, ५।२।८५

पूर्वादिनिः। अनेनेति कर्तृतृतीयान्तमनुवर्तते। कां क्रियां प्रति कर्तेत्याकाङ्क्षायां भुक्तं पीतमित्यादि यत्किञ्चित्क्रियापदमध्याहार्यम्। उपस्थितत्वात् कृञर्छभूतं क्रियासामान्यमेव प्रतीयते। ततश्च पूर्वं कृतमनेनेति विग्रहे कृतमित्यादिक्रियाविशेषणात्पूर्वशब्दादनेनेत्यर्थे इनिः स्यादित्यर्थः।

तत्त्व-बोधिनी
पूर्वादिनिः १४३२, ५।२।८५

पूर्वादिनिः। पूर्वमिति क्रियाविशेषणाद्द्वितीयान्तात्प्रत्ययः। "अनेने"ति कर्तृवाचकमनुवर्तते। न च क्रियामन्तरेण कर्ता संभवतीति कांचित्क्रियामध्याह्मत्य प्रत्ययो विधेयस्तदाह---पूर्व कृतमनेनेति।