पूर्वम्: ५।२।९७
अनन्तरम्: ५।२।९९
 
सूत्रम्
फेनादिलच् च॥ ५।२।९८
काशिका-वृत्तिः
फेनादिलच् च ५।२।९९

फेनशब्दातिलच् प्रत्ययो भवति मत्वर्थे। चकारात् लच् च। अन्यतरस्याम् ग्रहणम् मतुप् समुच्चयार्थं सर्वत्र एव अनुवर्तते। हेनिलः, फेनलः, फेनवान्।
न्यासः
फेनादिलच्च। , ५।२।९८

बाल-मनोरमा
फेनादिलच्च १८८१, ५।२।९८

फेनादिलच्च। "मत्वर्थ" इति शेषः। चाल्लजिति। संनिहितत्वादिति भावः। नन्वेवं सति मतुब् नैव स्यादित्यत आह--अन्यतरस्यांग्रहणमिति। सिघ्मादिसूत्रे व्याख्यातमिदम्।