दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः
५।३।२७ इति वक्ष्यति। प्रागेतस्माद् दिक्षं शब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामो विभक्तिसंज्ञास् ते वेदितव्याः। वक्ष्यति पञ्चम्यास् तसिल्
५।३।७। ततः। यतः। कुतः। तसिलादीनां विभक्तित्वे प्रयोजनं त्यदादिविधयः इदमो विभक्तिस्वरश्च। इह। ऊडिदम् इति विभक्त्युदात्तत्वं सिद्धं भवति। अतः परं स्वार्थिकाः प्रत्ययाः, तेषु समर्थाधिकारः प्रथमग्रहणं च प्रतियोग्यपेक्षत्वान् न उपयुज्यते इति निवृत्तम्। वावचनं तु वर्तत एव। तेन विकल्पेन तसिलादयो भवन्ति, कुतः , कस्मात्, कुत्र, कस्मिनिति।
"विभक्तिसंज्ञास्ते वेदिव्याः" इति। विभक्तिरित्येष शब्दः संज्ञा येषां ते तथोक्ताः। ननु च विभक्तिशब्दः सुप्तिङां संज्ञा, संज्ञा च प्रदेशवाक्येषूच्चारिता संज्ञिनं प्रत्याययतीति सुप्तिङां विभक्तिसंज्ञाविधानमनर्थकं स्यात्()।
यथा वृद्धिशब्दः स्वाभिधेये लौकिकेऽर्थे गुणीभूतोऽप्यादैच्? प्रति संज्ञात्वमनुभवति,
तथा विभक्तिशब्दोऽपि तसिलादीन्? प्रति संज्ञात्वेन वेदितव्यः। अथ तत्रैव कस्मान्नोच्यते--"सुपो विभक्तिश्च प्राग्दिशश्च" इति,
एवं सति पुनर्विभक्तिग्रहणं कत्र्तव्यं न भवति? नैवं शक्यम्();
एवं हि न्यासे सति "कुत आरब्य प्राग्दिशीयाः? इति न ज्ञायते। किञ्च "दिगादिभ्यो यत्()"
४।३।५४, "तेनैकदिक्()"
४।३।११२ इति चानेकं शास्त्रे दिग्ग्रहणमित्यवधिरपि सन्दिह्रेत। "किंसर्वनामबहुभ्यः"
५।३।२ इत्येवमादेश्च कारह्रस्यावधिदर्शनार्थं पुनरिह "प्राग्दिशः" इति वाच्यमेव स्यात्()। तस्माद्यथान्यासमेव साध। "ततः, यतः" इति। "अष्टन आ विभक्तौ"
७।२।८४ इत्यनुवत्र्तमाने "त्यदादीनामः"
७।२।१०२ इत्यत्वम्(), "न विभक्तौ तुस्माः"
१।३।४ इति सकारस्येत्संज्ञाप्रतिषेषः, "तद्धित श्चासर्वविभक्तिः"
१।१।३७ इत्यव्ययत्वाद्विभक्त#एर्लुक्()। "कुतः" इति। "कि तिहोः"
७।२।१०४ इति किमः कुभावः।
"त्यदादिविधयः" इति। त्यदादयोऽत्र दिभक्तिनिबन्धनाः। "ततः" इति। त्यदादिविधेरत्वस्योदाहरणम्()। "इह इति। इदमो विभक्तिस्वरस्य।
इदमः सप्तम्यन्तात्? "इदमो हः"
५।३।११ इति हप्रत्ययः, "इदम इश्()"
५।३।३ इतीशादेशः। "ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः"
६।१।१६५ इति इदमः परस्योदातत्वं विभक्तित्वे सति सिद्धं भवति। अत्र तु प्रत्ययस्वरेणैव सिद्धमाद्युदात्तत्वम्()। तस्माच्चोदाहरणदिगियं प्रदर्शित। इदं त्वत्रोदाहारणं युक्तम्()--"इतः" इति। इवमस्तसिल्(), पूर्ववदिश्()।
अतच्र ह्रसति विभक्तित्वे लिति प्रत्ययात्? पूर्वपदाद्युदात्तत्वं ["पूर्वमाद्युदात्तत्वं"-मुद्रितपाठः (वाराणसी-१९६७)] स्यात्()। तस्मिस्तु "ऊडिदम्()"
६।१।१६५ इत्यादिनेदमः परस्य तस आद्युदात्तत्वं सिद्धं भवति।
ननु च सत्यपि विभक्तित्वे परत्वाल्लित्स्वरेण भवितव्यम्()? नैष दोषः; "लिति"
६।१।१८७ इत्यत्र हि "ऊजिदम्()"
६।१।१६५ इत्यादिकं सूत्रमनुवर्त्तिष्यते लित्स्वरबाधनार्थम्()।
नन्वेवमपि नैव विभक्तेरुदात्तत्वं सिध्यति? तत्र हि "सावेकाचस्तृतीयादिविभक्तिः"
६।१।१६२ इत्यतस्तृतीयादिग्रहणमनुवत्र्तते, न च तसिलादयस्तृतीयादिगरहणेन गृह्रन्ते।
तृतीयैकवचनमारन्य आ पञ्चमाध्यायपरिसमाप्तेर्यावान्? प्रत्ययो विभक्तिसंज्ञः सर्वोऽसौ तृतीयादिः।
"अतः परम्()" इत्यादि। सामथ्र्यं हि नाम सम्बन्धार्थता;
सा च प्रतियोगिनमपेक्षत एव यन सहैकार्थीभावो भवति तस्मिन्? प्रतियोगिनि सति, नान्यथा। प्राथम्यमपि प्रतियोग्यपेक्षमेव। द्वितीयं हि प्रतियोगिनमपेभ्य प्रथममित्युच्यते। इत उत्तरं प्रत्ययाः प्रकृत्यर्थ एव भवन्तीति, न तद्विषौ द्वितीयस्य प्रतियोगिनः सम्भवः;
तदभावात्? सामथ्र्यप्राथम्ययोरपि नास्त्येव सम्भवः; तयोः प्रतियोग्यपेक्षत्वात्()। यतश्चैतदेवम्(), ततः "सामथ्र्याधिकारः प्रथमग्रहणञ्च नोपयुज्यते" इति द्वयमपि निवृत्त्म्()। यद्येवम्(); वावचनस्यापि निवृत्तिः प्राप्नोति,
एकयोगनिर्दिष्टत्वात्()? इत्याह--"वावचनं तु वत्र्तत एव" इति। तस्य स्वरितत्वादिति भावः। "तेन विकल्पेन" इत्यादि। तेनोत्तरसूत्रे वाग्रहणानुवृत्तेः फलं दर्शयति॥