पूर्वम्: ५।३।९
अनन्तरम्: ५।३।११
 
सूत्रम्
सप्तम्यास्त्रल्॥ ५।३।१०
काशिका-वृत्तिः
सप्तम्यास् त्रल् ५।३।१०

किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः त्रल् प्रत्ययो भवति। कुत्र। यत्र। तत्र। बहुत्र।
लघु-सिद्धान्त-कौमुदी
सप्तम्यास्त्रल् १२०७, ५।३।१०

कुत्र। यत्र। तत्र। बहुत्र॥
न्यासः
सप्तम्यास्त्रल्?। , ५।३।१०

बाल-मनोरमा
सप्तम्यास्त्रल् १९३२, ५।३।१०

सप्तम्यास्त्रल्। किमादिभ्यः सप्तम्यन्तेभ्योऽद्व्यादिभ्यस्त्रलित्यर्थः। "कुत्रे"त्यादिरूपाणि "कुत" इत्यादिवत्।

तत्त्व-बोधिनी
सप्तम्यास्त्रल् १४७४, ५।३।१०

सप्तम्यास्त्रल्। इह त्रल्तसिलौ स्वतन्त्रौ प्रत्ययौ, न तु सप्तमी प()?चम्योरादेशौ। तेन कुत्र बहुत्र कुतः बहुत इत्यादौ "अच्च घेः" "घेर्ङिती"त्यादिकं नेत्याहुः।